________________
२८८
न्यायकोशः। जरायुजः । इति ( देवीभाग० ) ( वाच० )। [ख] गर्भावरणचर्म ( कुल्लक० १।४३ ) । यथा जरायुणा मुखे छन्ने कण्ठे च कफवेष्टिते । वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति ॥ ( सुश्रुत० ) इत्यादौ ।
[ग] या तु चर्माकृतिः सूक्ष्मा जरायुः सा निगद्यते ( देवीभाग० )। जतिलाः—आरण्यास्तिलाः ( जै० न्या० मा० १०.८ अधि० ४)। जलम् -१ आपः इत्यस्यार्थीनुसंधेयः । अत्रोच्यते अपां शैत्यं तथा क्लेदो
द्रवत्वं स्नेहसौम्यता । जिह्वाभिष्यन्दनं चापि भौमानां स्रवणं तथा ॥ चतुर्थमापो विज्ञेयं जिह्वाध्यात्म प्रचक्षते । अधिभूतं रसास्तत्र सोमस्तत्राधिदैवतम् ॥ ( भा० आश्व० ) इति । अपां परिणामश्छान्दोग्ये समानायते । आपः पीतास्त्रेधा विधीयन्ते । तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति । यो मध्यमस्तल्लोहितम् । योणिष्ठः स प्राणः इति ( वाच० )। अत्रेदं बोध्यम् । हिमकरकादीनां सांसिद्धिकद्रवत्वमस्त्येव । न तु नैमित्तिकद्रवत्वम् । अदृष्टविशेषेण घनीभावात्सांसिद्धिकद्रवत्वप्रतिबन्धमात्रम् (सि० च० १ पृ० ७) । २ लग्नावधिकं चतुर्थस्थानमिति कार्तान्तिका
आहुः । ३ पूर्वाषाढानक्षत्रमिति मौहूर्तिका आहुः। जल्पः-( कथा ) [क] यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ( गौ० १।२।२)। यथोक्तोपपन्न इति । प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पश्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः । छलजातिनिग्रहस्थानसाधनोपालम्भ इति । छलजातिनिग्रहस्थानैः साधनमुपालम्भश्वास्मिन्क्रियत इति । एवंविशेषणो जल्पः ( वात्स्या० १।२।२ । [ख] उभयपक्षसाधनवती विजिगीषुकथा (गौ० वृ० १।२।२) ( त० भा० पृ० ४४) ( त० दी० पृ० ४३ ) ( सर्व० सं० पृ० २३९ अक्ष० )। [ग] स च छलादिसंपन्नो जल्पोस्य विजयः फलम् इति ( ता० र० श्लो० ७८ )। जल्पश्च यथासंभवं सर्वनिग्रहाणामधिकरणम् । परपक्षे दूषिते स्वपक्षस्थापनप्रयोगावसानश्च भवतीति बोध्यम् (त० भा० पृ० ४४)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org