________________
૨૮ર
न्यायकोशः ।
1
मिति । ततोर्थप्रत्ययः इति बोध्यम् ( म० प्र० ४ पृ० ६६ ) । क्रियाविशेषे चोच्यते । बाह्येर्विभावयेल्लिङ्गैर्भावैरन्तर्गतं नृणाम् । स्वरवर्णेङ्गिताकारैश्चक्षुषा चेष्टितेन च ॥ आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । नेत्रवक्त्रविकारैश्च गृह्यतेन्तर्गतं मनः ॥ ( मनु० ) इति । वायोस्तु स्पर्शनं चेष्टा व्यूहनं रौक्ष्यमेव च इति याज्ञवल्क्येन तस्या वायुकार्यत्वमुक्तम् (वा० ) । चेष्टा च शब्दस्मारकतया शब्दानुमापकतया वा प्रमायामुपयोगिनी । तथाहि । इयं चेष्टा तावद्विविधा | कृतसंमया अकृतसमया च । तत्र कृतसमया लिप्यादिवदभिप्रेतं शब्दमेव स्मारयति न किंचित्प्रमापयतीति लिपिरिव सापि न प्रमाणम् । अयमर्थः । शङ्खध्वनौ त्वया आगन्तव्यमिति शङ्खध्वनिं श्रुत्वा आगच्छति । यदा मया तर्जन्यूर्वीक्रियते तदा त्वयासौ ताडनीय इति तथाविधकरणे ताडयति । तथा च अनया चेष्टा केवलं पदार्थाः स्मार्यन्ते न तु तेषां संसर्गोपि बोध्यते इति प्रमितिविरहान्न प्रमाणत्वमस्याः इति । अन्ये तु मानसं बोधमाहुः ( त० व० पृ० १०१ ) । अकृतसमया तु चेष्टा प्रयोजकाभिप्रायं स्मारयन्ती सती प्रयोज्यं प्रवर्तयति ( त० व० पृ० १०० - १०१ ) । एवं च चेष्टा न प्रमाणान्तरम् इति नैयायिकाः । तान्त्रिकस्तु चेष्टाप प्रमाणान्तरम् इत्याहुः ( म०प्र० ४ पृ० ६६ ) ( सि० च० ) । चैतन्यम् – [१] [क] ज्ञानवत्त्वम् ( दि० १\२ ) । यथा शरीरस्य न चैतन्यं मृतेषु व्यभिचारतः ( भा० प० लो० ४९ ) इत्यादौ । [ख] ज्ञानेच्छायत्नवत्त्वम् ( ल० व० ) । यथा आत्मनश्चैतन्यम् । अत्र श्रुतिः चैतन्यमात्मनो विद्यात् इति ( वा० ) । [ २ ] चितौ बुद्ध्यादेः प्रतिबिम्ब: ( चिच्छाया ) चैतन्यम् इति सांख्या: । [ ३ ] बुद्ध्यादावात्माध्यासात् ( चिच्छाया चित्प्रतिबिम्ब: ) चैतन्यमिति मायावादिनो वदन्ति । अत्रोच्यते चैतन्यं परमाणूनां प्रधानस्यापि नेष्यते । ज्ञानक्रिये जगत्कय दृश्येते चेतनाश्रये ॥ इति ( वेदान्तका ० ) ( वा० ) । चैतन्यं दृक्क्रियारूपं तदस्त्यात्मनि सर्वदा । सर्वतश्च यतो मुक्तौ श्रूयते सर्वतोमुखम् ॥ ( सर्व० [सं० पृ० १८२ शैव० ) ।
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org