________________
२८१
न्यायकोशः। चिरनिर्मथितः- (अग्निः) आधानकाले निर्मथ्य गार्हपत्ये नित्यं धृतोग्निः -- (जै० न्या० अ० १ पा० ४ अधि० १०)। चुश्रुषा—इक्षुदण्डभक्षणे तद्रसस्वीकारे च यः शब्दविशेषस्तस्यानुकरणं ' चुक्षुषा इति ( जै० न्या० अ० १० पा० २ अधि० ३ )। चूडामणिः–रविग्रहः सूर्यवारे सोमे सोमग्रहस्तथा। चूडामणिरिति ख्यात
स्तत्रानन्तफलं लभेत् ।। ( पु० चि० पृ० ३४७ ) । चेत्- (अव्ययम् ) [क] संभावनाविषयता । यथा सुवृष्टिश्चेदभविष्यत्
सुभिक्षमभविष्यत् इत्यादौ । [ख ] असंदेहेपि संदिग्धतया कथनम् ( शब्दार्थचि० )। यथा सत्यं चेद्गुरुवाक्यमेव पितरो देवाश्च चेत् योगिनी प्रीता चेत् परदेवता च यदि चेत् वेदाः प्रमाणं हि चेत् । शाक्तीयं यदि दर्शनं भवति चेदाज्ञाप्यमोघास्ति चेत् स्वातत्रा अपि कौलिकाश्च यदि चेत् स्यान्मे जयः सर्वदा॥(तन्त्रम् ) इत्यादी (वाच०)। चेष्टा—(कर्म) [ १ ] [क] ईप्सितं जिहासितं वा अर्थमधिकृत्येप्सा
जिहासाप्रयुक्तस्य तदुपायानुष्ठानलक्षणा समीहा ( वात्स्या० १।१।११)। यथा चेष्टेन्द्रियार्थाश्रयः शरीरम् ( गौ० १।१।११) इत्यादौ । [ख] प्रयत्नवदात्मसंयोगासमवायिकारणकक्रिया। [ग] स्वासमवेतस्वातिरिक्तस्पर्शवदन्यप्रयत्नजन्यक्रिया (वै० उ० ५।१।१ )। तल्लक्षणं च चेष्टात्वमेव । तच्च प्रयत्नजन्यतावच्छेदको जातिविशेषः (गौ० वृ० १।१।११)। अत्रोच्यते आत्मजन्या भवेदिच्छा इच्छाजन्या भवेत्कृतिः । कृतिजन्या भवेचेष्टा तज्जन्यैव क्रिया भवेत् ॥ इति (वै० वि० ५।१।१ )। [] हिताहितप्राप्तिपरिहारार्थः स्पन्दः (न्या० वा० १।१।११ पृ० ७१ )। [3] हिताहितप्राप्तिपरिहारार्था क्रिया (त० भा० प्रमे० पृ० २५)। [ २ ] शब्दस्मारकः शब्दानुमापको वा हस्तादिक्रियाविशेषः ( अभिनयः )। यथा मूकस्य पद्यगानका वा हस्तक्रिया । अन्नानुमानं च अयम् घटमानयेतिशब्दविषयकाभिप्रायवान् घटमानयेतिशब्दव्यञ्जकचेष्टाकर्तृत्वात् यथा अहम् इति । अस्मादनुमानाद्बटमानयेति शब्दानु३६ न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org