________________
२८०
न्यायकोशः। साध्यताज्ञानमेव कारणम् इत्याहुः ( न्या० म० ४ पृ० २७ )। अयमाशयः । इच्छायाः समानप्रकारकधीसाध्यत्वम् इति नियमात्कृतिसाध्यत्वप्रकारकेच्छां प्रति कृतिसाध्यत्वप्रकारकज्ञानत्वेनैव हेतुत्वम् इति ( त० प्र० ४ पृ० १०६)। [ख] कृतिप्रकारकयत्किचिद्विशेष्यकेच्छा । यथा पाकं चिकीर्षति इत्यादी कृतिप्रकारकपाकविशेष्यकेच्छा। सा च पाकं कृत्या साधयामि इतीच्छा । अत्रेदं बोध्यम् । पाकादेश्च कृतिकर्मत्वमेव द्वितीयया प्रत्याय्यते । न तु इच्छाया विषयत्वरूपं कर्मत्वम् इति (ग० व्यु० का० २ ख० २ पृ० ५९ )। [ग] कृतिविशेष्यकेच्छा । सा च यथा पाककृतिर्भवतु इतीच्छैव (ग० व्यु० का० २ ख० २ पृ० ५९)। [घ] गुरवस्तु कृतिसाध्यत्वप्रकारकेच्छा इत्याहुः (मु० गु० पृ० २२३ ) । अत्रोच्यते । कार्यत्वज्ञानं प्रवर्तकम् । तथाहि ज्ञानस्य कृतौ जनयितव्यायां चिकीर्षातिरिक्तं न कर्तव्यमस्ति । तत्सत्त्वे कृतिविलम्बहेत्वन्तराभावात् । चिकीर्षा च स्वकृतिसाध्यताज्ञानसाध्या। इच्छायाः स्वप्रकारकधीसाध्यत्वनियमात् । अत एव स्वकृतिसाध्ये पाके प्रवर्तते । न त्विष्टसाधनताज्ञानसाध्या। स्वकृत्यसाध्ये चिकीर्षापत्तेः
(चि० ४) ( वाच० )। चित्-१ [क] चैतन्यवदस्यार्थीनुसंधेयः । [ख] चिदिति प्रोक्तो
जीवः ( सर्व० सं० पृ० ९२ रामानु०)। २ असाकल्यम् । यथा कच्चित् कथंचित् जातुचित् इत्यादौ । ३ चयनकर्ता । यथा अग्निचित् इत्यादौ । ४ अग्निः इति च याज्ञिका आहुः । ५ अव्यक्तानुकरणम् । यथा नहि करिणि दृष्टे चित्कारेण तमनुमिमतेनुमातारः ( चि० पक्षता०
वाचस्पतिमिश्रः ) इत्यादौ इति काव्यज्ञा वदन्ति ( वाच०)। चितिः-लागलेन कृष्टे व्याममात्रे भूप्रदेशे नानाविधाभिरिष्टकाभिः पक्ष्याकारेण स्थानं निष्पाद्यते सेयं चितिः (जै० न्या० अ० ४ पा० ४
अधि० ७)। चित्तम्-प्रमाणमात्रव्यङ्गया विवेकप्रवृत्तिश्चित्तम् ( सर्व० सं० पृ० १८८
नकु० )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org