________________
न्यायकोशः।
२७९ न हि लोकसिद्धसामग्री प्रातिभासिकरजतोत्पादिका । किंतु विलक्षणैव । तथा हि काचादिदोषदूषितलोचनस्य पुरोवर्तिद्रव्यसंयोगादिदमाकारा चाकचक्याकारा च काचिदन्तःकरणवृत्तिरुदेति इति चाकचक्यसंदर्शन
समुद्बुद्धरजतत्वसंस्कारसध्रीचीना इति च ( वेदान्तप० ) (वाच० )। चाकचिक्यम्-चाकचक्यशब्दस्यार्थीनुसंधेयः । चाक्षुषम्-१ चक्षुर्जन्यं प्रत्यक्षम् । यथा द्रव्यचाक्षुषं प्रति चक्षुःसंयोगः
कारणम् इत्यादौ । २ चक्षुर्माह्यम् । यथा रूपादि । चारित्रम्-सर्वथावद्ययोगानां त्यागश्चारित्रमुच्यते ( सर्व० सं० पृ०६५
आई०)। चार्वाकः– (नास्तिकः ) बृहस्पतिशिष्यो लोकायताख्यः । अत्र व्युत्पत्तिः ।
चारुः लोकसंमतः वाकः वाक्यम् यस्य सः इति द्रष्टव्या ( वाच० )। चार्वाकश्च प्रत्यक्षकप्रमाणवादी परमेश्वरस्वर्गनरकपुण्यपापादिकं नाङ्गीकरोति । तन्मतं तु सर्वदर्शनसंग्रहादौ सायणादिना किंचित् किंचित प्रदर्शितम् । तस्मादेव तत् ज्ञातव्यम् । चिकीर्षा-[क] कृतिसाध्यत्वप्रकारिका कृतिसाध्यक्रियाविषयिणीच्छा।
यथा पाकं कृत्या साधयामि इत्याकारिकेच्छा (चि० ४) (मु० गु० पृ० २२१ )। यथा वा पाकः कृत्या साध्यताम् इत्याकारिकेच्छा ( वाच० ) । अत्रेदमवधेयम् । कृतिसाध्यताज्ञानम् इष्टसाधनताज्ञानं च चिकीर्षां प्रति कारणम् । कृतिरत्र प्रवृत्तिरूपा ग्राह्या । नातो जीवनयोनियत्नसाध्यस्वाभाविकप्राणवायुसंचारे चिकीर्षा (म०प्र० ४ पृ०६१)। बलविष्टसाधनताज्ञानं तु चिकीर्षायां प्रतिबन्धकम् इति । अतो मधुविषसंपृक्तान्नभोजने न चिकीर्षा ( मु० गु० पृ० २२१ ) । अन्ये तु बलवद्वेषः प्रतिबन्धकः इत्याहुः । केचित्तु बलवदनिष्टासाधनत्वज्ञानमपि चिकीर्षां प्रति कारणम् इत्याहुः ( भा० प० श्लो० १४७-१४९) (मु० गु०)। गुरवस्तु कृतिसाध्यताज्ञानमात्रं चिकीर्षां प्रति कारणम् इत्याहुः (मु० गु० पृ० २२२ )। नव्याश्चापि चिकीर्षां प्रति कृति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org