________________
न्यायकोशः।
२८३ चोदना– १ [क ] विधिवाक्यम् । चोदना चोपदेशश्च विधिश्चैकार्थ.. वाचिनः इति ( भट्टका० ) । यथा ओदनकामः पचेत स्वर्गकामो
यजेत इत्यादि वाक्यम्।[ख] प्राभाकरास्तु प्रवर्तकं वेदवाक्यं चोदना । यथा चोदनालक्षणोर्थो धर्मः ( जै० सू० १।१।२ ) इत्यादौ ज्योतिष्टोमेन वर्गकामो यजेत इत्यादि वाक्यम् इत्याहुः (लौ० भा० पृ०३)। [ग] प्रवर्तकः शब्दश्चोदना (जै० सू० वृ० अ० १ पा० १ सू० २)। [घ] कर्मोत्पत्तिवाक्यम् (जै० सू० वृ० अ० २ पा० २ सू० १६)। भट्टास्तु [ङ] प्रेरणा फलभावना। यथा स्वर्गकामो यजेत इत्यादौ लिङाद्यर्थाभिधारूपा चोदना इत्याहुः ( वाच०)। [च] प्रवर्तना । [छ] प्रवृत्तिहेतुः । यथा ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ( गीता ) इत्यादाविष्टसाधनत्वज्ञानम् इष्टसाधनं कर्म एतज्ज्ञानाश्रयश्चेति त्रिविधा चोदना भवति ( श्रीधरः)। [ज] अज्ञातार्थज्ञापकं शब्दमात्रम् (रत्नप्रभा० पृ० १२ )। यथा चोदनाप्रवृत्तिभेदाच्च ( शारी० भा० १११११ पृ० २ ) इत्यादौ । २ चोदनाविषयो यागादिप्रयत्नः । यथा एकं वा संयोगरूपचोदनाख्याविशेषात् ( जै० सू० २।४।९ ) ( रत्नप्रभा० )। इत्यत्र पुरुषप्रयत्नश्चोद्यते ( शाबरभा० २।४।९ ) इति ( वाच० )।
३ चोदना नाम अपूर्वम् (जै० सू० वृ० अ० २ पा० १ सू० ५ )। चौर्यम् -परमात्रस्वत्ववद्रव्यहरणम् । यथा सा च द्रव्यवशा कुतस्तव धनम्
द्यूतेन चौर्येण वा चौर्यातपरिग्रहोपि . भवतो नष्टस्य कान्या गतिः ( उद्भटः ) इत्यादौ ( वाच०)। अत्रोच्यते मनुना स्यात्साहसं त्वन्वयवत् प्रसभं कर्म यत् कृतम् । निरन्वयं भवेत्स्तेयं हृत्वापह्वयते च यत् ॥ ( मनु० अ० ८ श्लो० ३३२ ) इति । अत्र अपव्ययते इति पाठान्तरम् । नारदेनापि उपायैर्विविधैरेषां छलयित्वापकर्षणम् । सुप्तमत्तप्रमत्तेभ्यः स्तेयमाहुर्मनीषिणः ॥ इति ( वीरमित्रो० २ पृ० ४८९ )। चिः-(प्रत्ययः) [क] अभूततद्भावभव्यर्थः । यथा घटं शुक्लीकरोतीत्यादी शौक्लयादिः । तदर्थश्च अभूतस्य पूर्वकालावच्छेदेन शुक्लत्वादिभावरहितस्य तद्भावः शौक्लयादिः । अथवा अभूतः पूर्वकालावच्छेदेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org