________________
२७६
न्यायकोशः। घटोयं यद्येतद्धटजन्यजन्यजन्यः स्यात् तदा एतद्भटजन्यजन्यभिन्नः स्यात् इति । स्थितौ यथा घटोयं यद्येतद्भुटवृत्तिवृत्तिवृत्तिः स्यात् तदा तथात्वेनोपलभ्येत इति ( वाच० )। २ चक्राकारश्छन्दोविशेष इति
छन्दोज्ञाः । ३ दद्रुरोग इति भिषज आहुः ( वाच०)। चक्रवृद्धिः-वृद्धवृद्धिः । उत्तमर्णाय मूलादधिकं यद्व्यमधमणेन दीयते
तद्वृद्धिशब्देनोच्यते । चक्षुः-१ ( इन्द्रियम् ) [क] रूपोपलब्धिसाधनमिन्द्रियम् (त० भा०
प्रमेय० पृ० २६ )। अत्रेदमवधेयम् । चक्षुषोधिष्ठातृदेवः सूर्यः । तत्र दिग्वातार्कप्रचेतोश्वि इत्यादि प्रमाणम् ( शा० ति० )। चक्षुःसद्भावे प्रमाणमनुमानम् । तच्चानुमानम् रूपोपलब्धिः सकरणिका क्रियात्वाच्छिदिक्रियावत् इति । अनेनानुमानेन पक्षधर्मताबलाचक्षुःसिद्धिः । इयमेव रीतिर्घाणादावपि बोध्या (म० प्र० १ पृ० १४)। तच्च चक्षुः तैजसम् ( न्या० म० १ पृ० १४ ) । चक्षुषस्तैजसत्वेनुमानं प्रमाणम् । तच्चानुमानम् चक्षुस्तैजसम् स्पर्शाद्यव्यञ्जकत्वे सति परकीयरूपव्यञ्जकत्वात्प्रदीपवत् । प्रभावत् इति वा (मु० १ पृ० ७९) (त० भा० पृ० २७ )। चक्षुष्यनुद्भूतशुक्लो गुणोस्ति । संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् द्रवत्वम् स्नेहः क्रिया जातिः समवायश्च एतानि योग्यव्यक्तिवृत्तीनि चक्षु ह्याणि । तथा उद्भूतरूपम् उद्भूतरूपवद्रव्यं च चक्षुह्यम् ( भा० प० श्लो० ५५-५६ )। तच्चाप्राप्यप्रकाशकारि भवति इति विज्ञेयम् (दि० १ तेजोनि० पृ०८०)। तैजसं गोलकमेव चक्षुः इति बौद्धा आहुः । उच्छृङ्खलमते तु गोलकमेव चक्षुः न तैजसम् । [ख] रूपग्राहकं महदिन्द्रियम् ( न्या० म० १ पृ० १४ ) (त० भा० पृ० २६)। घ्राणादिवारणाय रूपग्राहकम् इति विशेषणम् । मनोवारणाय महत् इति । आलोकादिवारणाय इन्द्रियम् इति ( म०प्र० १ पृ० १४)। [ग] घटे रक्तो वर्णः इति रूपप्रत्यक्षासाधारणं कारणम् । तच्च कृष्णताराप्रवर्ति ( प्र० प्र० पृ० ११) (त० सं० )। [५] सर्वप्राणिनां रूपव्यञ्जकम् अन्यावयवानभिभूतै
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org