________________
न्यायकोशः ।
Jain Education International
I
रूपम् । तथा च समभिव्याहृत क्रियादिगतमानुषङ्गिकत्वव्याप्यत्वमन्वाचयचकारार्थः ( वाच० ) । यथा भिक्षामट गां चानयेति । अत्र हि अदर्शनाद्गामनानयन्नपि भिक्षामटत्येव । अनटंस्तु भिक्षां न गामानयति । तथा अन्नपि नान्विष्य गामानयति ( शब्दकौ ० २।२।२९ ) । मिलितानामन्वय इतरेतरयोगः । तथा च मिलितानाम् परस्परापेक्षाणामुद्भूतावयवभेदकसमूहरूपाणाम् अन्वयः एकधर्मावच्छिन्नेनान्वयः इति निष्कृष्टार्थः ( वाच० ) । समूहः समाहारः । अत्र इतरेतरसमाहारयोरयं विशेषो ज्ञेयः । उद्भूतावयवभेदसमूहस्य प्रतीत्या प्रत्येकावयववृत्तिधर्म एवेतरेतरयोगे प्रवृत्तिनिमित्तम् । समाहारे तु द्वित्वत्रित्यादिनैव भानात् समूहत्वमेव प्रवृत्तिनिमित्तम् । एवं च उभयत्रैव समूहस्य बोधः इति । अन्योपि विशेषः । इतरेतरयोगे साहित्यं विशेषणम् । द्रव्यं विशेष्यम् । समाहारे तु साहित्यं प्रधानम् । द्रव्यं विशेषणम् इति ( वाच० ) ५ तुल्ययोगित्वम् । तथाहि तुल्ययोगितालंकारस्य चेन द्योतनात् तस्य तदर्थकता । यथा संकुचन्ति सरोजानि स्वैरिणीवदनानि च ( चन्द्रालोकः ) । एवम् दीपकालंकारद्योतकतापि । चकारद्वयप्रयोगे क्वचिदविलम्बयोगितायाः कचित् तुल्यप्रधानस्य चावबोधनम् । यथा इतीरिता पत्ररथेन तेन ह्रीणा च हृष्टा च बभाण भैमी ( नैष० ) कला च सा कान्तिमती कलाभृतस्त्वमस्य लोकस्य च नेत्रकौमुदी ( कुमार० ) इत्यादौ ( वाच० ) ६ विनियोग: ( वा० ) ।
I
1
चक्रकम् - १ ( तर्कः ) [क] तदपेक्षापेक्ष्यपेक्षितत्वनिबन्धनोनिष्टप्रसङ्गः । इदं च उत्पत्तिस्थितिज्ञप्तिद्वारा त्रिविधम् । तत्प्रपञ्चस्तु आत्माश्रयवदनुसंधेयः | अत्रेदं ज्ञेयम् । चतुष्कक्षादावपि स्वस्य स्वापेक्षा - पेक्ष्यपेक्षितत्वसत्त्वान्नाधिक्यम् ( गौ० वृ० १ १ ४० ) अपेक्षायाः साक्षात्परंपरा साधारण्या ग्राह्यत्वात् । [ख] स्वापेक्षणीयापेक्षितसापेक्षत्वनिबन्धनः प्रसङ्गः । अपेक्षा च ज्ञप्तौ उत्पत्तौ स्थितौ च ( जाग० तर्क ० ) । तत्र ज्ञप्तौ यथा एतद्वटज्ञानं यद्येतद्घटज्ञानजन्यज्ञानजन्यज्ञानजन्यं स्यात् तदा एतद्घटज्ञानजन्यज्ञानजन्यज्ञानभिन्नं स्यात् इति । उत्पत्तौ यथा
२७५
For Personal & Private Use Only
www.jainelibrary.org