________________
૨૭૪
न्यायकोशः। श्रयतावान् इत्याकारकः शाब्दबोधः इति संक्षेपः (ग० व्यु० का० २ पृ० ५१)। [ख] घ्राणजन्यप्रत्यक्षम् । यथा षाड्वर्गिकं जिघ्रति
षड्गुणेशः ( भा० १।३।६ ) इत्यादौ ( वाच० )। घ्राणम्— (इन्द्रियम् ) [क] गन्धोपलब्धिसाधनमिन्द्रियम् ( त० भा० प्रमे० पृ० २६ )। [ख] गन्धग्राहकं महदिन्द्रियम् ( न्या० म० १ पृ० १४ ) (त० सं० )। [ग] चन्दने सौरभम् इति गन्धप्रत्यक्षासाधारणं कारणम् । तच्च नासाप्रवृत्ति (प्र० प्र० पृ० ११.)(त० सं०)। तच्च घ्राणेन्द्रियं पार्थिवम् ( त० भा० पृ० २६ ) ( न्या० म० १ पृ० १४) । घ्राणस्य पार्थिवत्वे प्रमाणं चानुमानम् । तच्चानुमानम्घ्राणं पार्थिवम् द्रव्यत्वे सति रूपादिपञ्चकमध्ये गन्धस्यैव व्यञ्जकत्वाद्वायूपनीतसुरभिभागवदिति कुङ्कुमगन्धाभिव्यञ्जकगोघृतवत् इति वा (मु० १ पृ० ७२) (प्र० प्र०)। अथवा यदिन्द्रियं रूपादिपञ्चकमध्ये यं गुणं गृह्णाति तदिन्द्रियं तद्गुणयुक्तम् । यथा चक्ष रूपग्राहकं रूपवत् । गन्धग्राहकं घ्राणमतो गन्धवत् इति ( त० भा० पृ० २६)।
च—(अव्ययम् ) १ पादपूरणोपयोगि । तस्य च निरर्थकतैव । तत्रोक्तम् निरर्थकं चादि पादपूरणैकप्रयोजनम् ( चन्द्रालोके )। २ पक्षान्तरद्योतनम् । पक्षान्तरं चात्र पुनरर्थकम् । यथा मूर्खापि शोभते तावत् सभायां वस्त्रवेष्टितः । तावच्च शोभते मूर्खा यावत्किंचिन्न भाषते ॥ ( हितो० ) इति। ३ अवधारणम् । ४ चार्थः समुच्चयादिः । तस्यायं विभागो ज्ञेयः । चार्थाश्चत्वारः १ समुच्चयः २ अन्वाचयः २ इतरेतरयोगः ४ समाहारश्चेति । अत्र सूत्रम् चार्थे द्वन्द्वः (पा० २।३।२९) इति । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः । परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयः समुच्चयः । यथा अहरहर्नयति मनुष्यान्पशून्पक्षिणश्च यम इत्यत्र । अन्यतरस्यानुषङ्गिकत्वेन्वाचयः । आनुषङ्गिकत्वमनुद्देश्यत्वम् । अन्यतरस्य प्राधान्यं च तत्संबन्धिक्रियाया अवश्यकर्तव्यत्व
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org