________________
न्यायकोशः।
२७७ स्तेजोवयवैरारब्धं च चक्षुः ( प्रशस्त० १ तेजोनि० पृ० ६)
२ तेजः । यथा सूर्यचक्षुषे ( ताण्ड्यबा० ) इत्यादौ ( वाच०)। चण्डिका—(कल्याणीशब्दे दृश्यम् ) । चतुरणुकम्- (जन्यद्रव्यस्यावयवः ) चतुर्भिक्ष्यणुकैर्यदुत्पद्यते तत् (त. दी० १ पृ० ९)। एवं पञ्चाणुकाह्यम् (त० कौ० १ पृ० ३)। नव्या
नास्तिकास्तु संयुक्ताणुचतुर्विंशतिकं चतुरणुकम् इत्याहुः (प० मा० )। चतुर्थी-(विभक्तिः ) तत्तद्धात्वर्थे संप्रदानत्वादिबोधिका विभक्तिः ( श० प्र० श्लो० ६५ पृ० ७५)। यथा विप्राय गां ददातीत्यादौ विप्रायेति चतुर्थी । चतुर्थ्यर्थश्च [१] संप्रदानम् । तच्च क्रियाकर्मीभूतवस्तुनिष्ठस्वत्वभागित्वेनोद्देश्यम् । यथा विप्राय गां ददाति राज्ञे दण्डं ददातीत्यादौ विप्रो राजा च संप्रदानम् । अत्र दानेन गोदण्डादौ यजमानस्वत्वनिवृत्तौ विप्रराजादेः स्वत्वोत्पादात् गोदण्डनिष्ठस्वत्वभागित्वेन विप्रराजोद्देश्यकगोदण्डकर्मकदानकर्ता इति बोधः ( म०प्र० पृ० ६) । [२] उद्देश्यत्वम् । यथा एषो_ः शिवाय नमः इत्यादौ चतुर्थ्यर्थः (ग० व्यु० का० ४ पृ० ९९)। [३] तादर्थ्यम् । यथा यूपाय दारु इत्यादौ चतुर्थ्यर्थः । अत्र तादर्थं चतुर्थी वाच्या इति वार्तिकेन चतुर्थी। [४] संबन्धः । यथा नारदाय रोचते कलहः वैश्याय शतं धारयतीत्यादौ । नारदायेत्यत्र रुच्यर्थानां प्रीयमाणः (पा० १।४।३३ ) इति सूत्रेण संबन्धमात्रबोधिका चतुर्थी उपपदविभक्तिरेव (म० प्र० पृ० ६)। वैश्यायेत्यत्र धारेरुत्तमर्णः ( पा० १।४।३५ ) इति सूत्रेण संबन्धमाने चतुर्थी । विष्णवे नमः इत्यादौ च चतुर्थ्यर्थः संबन्धः । अत्र नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च ( पा० २।३।१६ ) इति सूत्रेण संबन्धार्थे चतुर्थी उपपदविभक्तिरेव ( म० प्र० पृ० ६)। [५] विषयित्वम् । यथा पुष्पेभ्यः स्पृहयति पुत्राय क्रुद्ध्यतीत्यादौ चतुर्थ्यर्थः । पुष्पेभ्य इत्यत्र स्पृहाविषयपुष्पस्य स्पृहेरीप्सितः (पा० सू० १।४।३६) इत्यनेन संप्रदानत्वाच्चतुर्थी । तदर्थो विषयित्वम् । तस्येच्छारूपक्रियायामन्वयः। पुत्रायेत्यत्र क्रुधदुहेासूयार्थानां यं प्रति कोपः ( पा०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org