________________
२७२
न्यायकोशः।
सर्ग एष ते ( रघु० ३।५१ ) तयोर्जगृहतुः पादान् राजा राज्ञी च मागधी (रघु० ११५७ ) दश ग्रहान ( यज्ञपात्राणि ) गृह्णाति (श्रुतिः) हंसं तनौ संनिहितं चरन्तं मुनेर्मनोवृत्तिरिव स्विकायाम् । ग्रहीतुकामा दरिणा शयेन यत्नादसौ निश्चलतां जगाहे ।। ( नैष० ३।४) इत्यादी ३ स्वीकारः । स च द्विविधः । स्वत्वापादनव्यापारः सेवनादिना आयत्तीकरणं च । तत्राद्यो यथा तत्र किंचिन्न गृह्णीयात् प्राणैः कण्ठगतैरपि ( प्रा० त० गङ्गामाहा० ) इत्यादौ । द्वितीयो यथा शरद्रौद्रं
न गृह्णीयात् गृह्णीयान्मार्गपौषयोः ( नीति० )। ग्रहः—सूर्यादयो नव ग्रहा इति ज्योतिर्विदो वदन्ति । बालारिष्टकाराः स्कन्द
ग्रहादय इति पौराणिका भिषजश्चाहुः ( वाच० )। ते च सुश्रुत उक्ता यथा स्कन्दग्रह १ स्तु प्रथमः स्कन्दापस्मार २ एव च । शकुनी ३ रेवती
४ चैव पूतना ५ चान्धपूतना ६॥ पूतना शीतनामा ७ च तथैव ८ मुखमण्डिका ८ । नवमो नैगमेयश्च ९ यः पितृप्रहसंज्ञितः ॥ इति । ग्रामः-ब्राह्मणकर्षकपुरुषप्रधानो देशो ग्रामः ( कैयटः ७३।१४)।
अत्र महाभाष्यकाराः । ग्रामशब्दोयं बह्वर्थः । अस्त्येव शालासमुदाये वर्तते । तद्यथा ग्रामो दग्ध इति । अस्ति वाटपरिक्षेपे वर्तते । तद्यथा ग्रामं प्रविष्ट इति । अस्ति मनुष्येषु वर्तते । तद्यथा ग्रामो गतो ग्राम आगत इति । अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते । तद्यथा ग्रामो लब्ध इति ( महाभाष्यम् १।१।७ ) । वाटपारिक्षेपार्थस्तु
वाटपरिक्षेपशब्दे द्रष्टव्यः । ग्राह्यः-१ प्रतिबध्यज्ञाने प्रकारीभूतो धर्मः । यथा हृदो वह्निमान् इति ज्ञाने
प्रकारभूतो वह्निर्माह्यो भवति । तथाहि ह्रदो वह्नयभाववान् इति निश्चयस्य प्रतिबध्ये हृदो वह्निमान् इति ज्ञाने प्रकारो वह्निरस्तीति वह्निर्माह्यः इति विज्ञेयम् । २ ग्रहणविषयः । यथा चक्षुर्मात्रग्राह्यो गुणो रूपम् इत्यादी
रूपं ग्राह्यं भवति । ३ स्वीकार्यम् ( वस्तु ) इति काव्यज्ञा वदन्ति । ग्लहः-परस्परसंप्रतिपत्त्या कितवपरिकल्पितः पणो ग्लह इत्युच्यते
( मिताक्षरा० अ० २।१९९)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org