________________
न्यायकोशः।
२६७ बाधात् यजमानस्य कुशमुष्टिधारणरूपाङ्गवादरूपत्वात् गुणवादः इति
बोध्यम् । गुणवादशब्दव्युत्पत्तिस्तु गुणस्य अङ्गस्य वादः इति द्रष्टव्या । गुणविधिः-(विधिः) प्राप्तस्याप्राप्तस्य वा कर्मणोङ्गद्रव्यविधानम् । तत्र
प्राप्तस्य यथा दना जुहोति इत्यादौ दधिद्रव्यविधानम् । गुणविधी च धात्वर्थस्य साध्यत्वेनैवान्वयः । न तु साधनत्वेनाप्यन्वयः । अत्र होमस्य अग्निहोत्रं जुहुयात् इत्यनेन प्राप्तत्वाद्धोमोद्देशेन दधिमात्रविधानम् । दना होमं भावयेत् इति वाक्यार्थः ( लौ० भा० )। अग्निहोत्रं जुहोति स्वर्गकामः इति विधिना स्वर्गसाधनत्वेन प्राप्तस्याग्निहोत्रादेरङ्गम् दध्ना जुहोति इति वाक्येन दधिद्रव्यं विदधद्गुणविधिः (वाच० )। अप्राप्तस्य यथा सोमेन यजेत इत्यादौ सोमविशिष्टयागविधानम् । अत्र कर्म अङ्गं च मानान्तरेणाप्राप्तम् इति उभयविधानम् । यथा हि तस्य अङ्गरूपगुणविधानेन गुणविधित्वम् तथा कर्मस्वरूपप्रापकत्वेन उत्पत्तिविधित्वं चेत्युभयरूपत्वम् ( वाच० ) । अत्र सोमद्रव्यं यागश्चेत्युभयम् अप्राप्तम् इति सोमविशिष्टयागं विधत्ते । सोमपदे मत्वर्थलक्षणया सोमवता यागेन इष्टं भावयेत् इति वाक्यार्थबोधः ( लौ० भा० )। गुणान्तरापत्तिः-धर्मिणि सत्येव धर्मान्तरापत्तिः । यथा शाब्दिकनये
उदात्तत्वगुणमात्रनिवृत्त्या अनुदात्तत्वम् ( गौ० वृ० २।२।५६)। . गुप्—(धातुः ) १ रक्षणम् । यथा आत्मानं सततं गोपायीत ( श्रुतिः ) इत्यादौ । २ गर्हापूर्वकनिवृत्तिः । यथा पापाजुगुप्सत इत्यादौ धात्वर्थः । अत्र सुपो . विषयित्वमर्थः । तच्च गर्दा निवृत्त्योः क्रमेणान्वयि । तथा च पापविषयकगर्हाप्रयुक्तपापगोचरचिवृत्तिमान् इत्याकारको बोधः ( श० प्र० श्लो० ६८ पृ० ८१)। ३ भासनम् । ४ व्याकुलत्वम् । यथा गोपायति क्षितिमिमां चतुरब्धिसीमां पापाज्जुगुप्सत उदारमतिः सदैव । वित्तं न गोपयति यस्तु वनीयकेभ्यो धीरो न गुप्यति महत्यपि कार्यजाते ॥ ( कविरहस्ये ) इति चतुर्णा गुप्धात्वर्थानामुदाहरणानि । गुप्तिः-संचारकारणाद्योगादात्मनो गोपनम् (सर्व० सं० पृ० ७८ आई०)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org