________________
२६६
न्यायकोशः। पाकजभेदेन द्विविधाः । तत्र पाकजाः कस्यांचित्पृथिव्यामेव वर्तन्ते । घटादिषु पावकसंयोगात्पूर्वश्यामादिनिवृत्तौ रक्ताद्युत्पादात् । अपाकजास्तु पृथिव्यादिचतुष्टयेपि वर्तन्ते । पाकजा अपाकजाश्च ते सर्वे पृथिव्यामनित्या एव । अन्यत्र जलादिषु त्रिषु पाकासंभवेनापाकजा एव ते । ते तु अपाकजाः जलादिषु नित्येषु गता नित्याः । अनित्येषु गतास्त्वनित्या एव । अत्र प्रमाणानि सूत्राणि पृथिव्यादिरूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याश्च । एतेन नित्येषु नित्यत्वमुक्तम् । अप्सु तेजसि वायो च नित्या द्रव्यनित्यत्वात् । अनित्येष्वनित्या द्रव्यानित्यत्वान् । कारणगुणपूर्वकाः पृथिव्यां पाकजाः (वै० ७।१।२-६ ) इति । रूपादीनां गुणानां सर्वेषां गुणत्वाभिसंबन्धः द्रव्याश्रितत्वम् निर्गुणत्वम् निष्क्रियत्वं च । तत्र बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नास्त्वन्तःकरणपाह्याः । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दतूलपरिमाणोत्तरसंयोगनैमित्तिकद्रवत्वपरत्वापरत्वपाकजाः संयोगजाः । शब्दोत्तरविभागौ विभागजौ । अपाकजरूपरसगन्धस्पर्शपरिमाणकत्वैक्रपृथक्त्वगुरुत्वसांसिद्धिकद्रवत्वस्नेहानां यावद्व्यभावित्वम् । शेषाणामयावद्व्यभावित्वं चेति । (प्रशस्त० ११।२४।२५)। रूपादीनां सर्वेषां गुणानां प्रत्येकमपरसामान्यसंबन्धा
द्रूपादिसंज्ञा भवन्ति ( प्रशस्त० १२।१५)। गुणवादः—(अर्थवादः) [क] विरोधे गुणवादः । विशेष्यतावच्छेदकविशेषणशब्दार्थयोर्विरोधे इति विरोधे इत्यस्यार्थः (त० प्र० ख० ४ पृ० १२४)। [ख] प्रमाणान्तरविरोधे सत्यर्थवादः । यथा आदित्यो यूपो भवति । अत्र च यूप आदित्याभेदस्य प्रत्यक्षबाधितत्वात् आदित्यवदुज्वलत्वरूपगुणोनेन लक्षणया प्रतिपाद्यते ( लौ० भा० पृ० ५५)। यूप आदित्याभेदस्य प्रत्यक्षादिविरुद्धत्वात तद्गतो गुणविशेष उज्जवलत्वादिर्लक्ष्यते । आदित्यवदुज्वलो यूपः इति बोधः ( म०प्र० पृ० ६४ )। यथा वा यजमानः प्रस्तरः इत्यादिः (सि० च० पृ० ३३) ( लौ० भा० पृ० ५५ ) (म० प्र० पृ० ६४ ) (त० प्र० ख० ४ पृ० १२४)। अत्र प्रस्तरो दर्भमुष्टिः । तस्य यजमाने अभेदान्वय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org