________________
२६५
न्यायकोशः। सन्ति इति (प० मा०)। संख्यादयः पश्च सर्वद्रव्यसाधारणा भवन्ति । परत्वापरत्वे तु मूर्तद्रव्य एव वर्तेते । भावना धर्माधौ दुःखद्वेषौ एते जीवात्मन्येव वर्तन्ते । रूपरसस्पर्शकत्वपरिमाणैकपृथक्त्वगुरुत्वसांसिद्धिकद्रवत्वस्नेहा नित्यगताः नित्याः अनित्यगतास्त्वनित्या भवन्ति । एतदन्ये गुणा नित्यानित्यगताः अनित्या एव भवन्ति (प्र० प्र०)। अत्रेदं बोध्यम् । रूपरसगन्धस्पर्शाः नित्येपि पृथिवीपरमाणौ वर्तमानाः सर्वे अनित्या एव पाकजत्वात् इति ज्ञेयम् । जीवात्मसमवेता बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाः शब्दश्चैते द्विक्षणावस्थायिनस्तृतीयक्षणे नश्यन्ति इति (त० को०)। अत्रायं विवेकः । संनिकृष्टत्वविप्रकृष्टत्वाभ्यां परत्वापरत्वे उत्पद्यते इत्यतः परत्वापरत्वे संनिकृष्टत्वविप्रकृष्टत्वाभ्यामतिरिक्ते गुणावेवेति वैशेषिकमतम् । अत्र सूत्रं प्रमाणम् । एकदिकालाभ्यामेककालाभ्यां संनिकृष्टविप्रकृष्टाभ्यां परमपरं च ( वै० ७।२।२१ ) इति । नव्यास्तु संनिकृष्टत्वविप्रकृष्टत्वाभ्यां दैशिकपरत्वापरत्वव्यवहारस्य ज्येष्ठत्वकनिष्ठत्वाभ्यो कालिकपरत्वापरत्वव्यवहारस्य चोपपत्तेः न तयोर्गुणान्तरस्वमिति ( दि० गु० पृ० २०९) । पृथक्त्वं चान्योन्याभावान्नातिरिच्यते इति चाहुः । एते रूपादयो गुणाः समवायनिराकरणेन द्रव्याभिन्ना एवेति सांख्या वेदान्तिनश्च मन्यन्ते । तत्र वैशेषिकनैयायिकसिद्धान्तसिद्धेषु चतुर्विंशतौ गुणेषु मध्ये रूपरसगन्धस्पर्शाश्चत्वारः प्रत्येकमुद्भूतानुद्भूतभेदेन द्विविधाः । अनुद्भूतरूपादयो घ्राणरसनाचक्षुस्त्वगादौ तिष्ठन्ति । उद्भूतरूपादयस्तु घटपटादौ योग्यपृथिव्याद्यारम्भकपरमाणुव्यणुकच्यणुकादौ च तिष्ठन्ति (त० कौ० )। केचित्तु चित्राचित्रभेदेनापि ते द्विविधाः । तत्र नीलपीतादिभिर्मधुरतिक्तादिभिः सुरभ्यसुरभ्यादिभिः । सुकुमारकठिनाद्यैश्चावयवैरारब्धपटादिषु चित्राः अन्यत्राचित्राः इति मन्यन्ते (त० को०)। सिद्धान्तिनस्तु रूपादिषु चतुर्यु रूपस्यैव चित्राचित्रभेदेन द्वैविध्यमवयविचाक्षुषप्रत्यक्षान्यथानुपपत्त्या कल्प्यते । न तु रसादीनां द्वैविध्यम् । तेषां चित्रविधत्वानङ्गीकारात् इति प्राहुः (त० दी० १)। प्रकारान्तरेण च ते पुनश्चत्वारोपि पाकजा३४ न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org