________________
न्यायकोशः ।
1
सामान्ययोः सर्वेन्द्रियत्वग्राह्यत्त्रम् (वै० उ० ४।१।१३ ) | परत्वापरत्वद्वित्वपृथक्त्वादयो बुद्ध्यपेक्षगुणाः । रूपरसगन्धस्पर्शशब्दपरिमाणैकत्यैकपृथक्त्वस्नेहाः सजातीयारम्भकगुणाः । सुखदुःखेच्छाद्वेषप्रयत्नाः स्वासमानजातीयारम्भका गुणा भवन्ति । संयोगविभागसंख्याः गुरुत्वद्रवत्वोष्णस्पर्शज्ञानधर्माधर्मसंस्काराः समानासमानजातीयारम्भका गुणाः । बुद्धिसुखदुःखेच्छाद्वेषभावनाशब्दाः स्वाश्रयसमवेतविशेषगुणारम्भकाः । रूपरसगन्धस्पर्शपरिमाणस्नेह प्रयत्नाः परत्रारम्भकाः । संयोगविभागसंख्यैकपृथक्त्वगुरुत्वद्रवत्व वेगस्नेहप्रयत्नधर्माधर्मास्तूभयत्रारम्भकाः । गुरुत्वद्रवत्ववेगस्थितिस्थापकप्रयत्नधर्माधर्मसंयोगविशेषाः क्रियाहेतवः । परत्वापरत्वद्वित्वद्विपृथक्त्वादयो गुणा अकारणानि भवन्ति । स्वध्वंसप्रत्यक्षातिरिक्तं प्रत्यकारणानीत्यर्थः ( दि० गु० ) । रूपादिसप्तकम् गुरुत्वद्रवत्व स्नेहवेगस्थितिस्थापकपरत्वापरत्वानि चाश्रयव्यापीनि भवन्ति रूपरसगन्धस्नेहगुरुत्व द्रवत्वस्थितिस्थापका एते स्पर्शव्याप्या भवन्ति । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावना एते गुणा आत्ममात्रवृत्तयो भवन्ति । बुद्धीच्छाद्वेष प्रयत्नभावनानामेव सविषयकत्वम् । अत्रेदं बोध्यम् । इच्छादीनां जनकज्ञानसविषयत्वेनैव सविषयत्वव्यवहार इति तु प्राश्नः वाचस्पति मिश्रादयः आहुः । व्यवहारबलेन ज्ञानवदिच्छादेरपि साक्षादेव सविषयतेति तु नव्या आहुः ( प० मा० ) । रूपद्रवत्वे पृथिव्यप्तेजोमात्रवृत्तिनी भवतः । संख्याप्रचयपरिमाणान्येव परिमाणासमवायिकारणानि भवन्ति । संयोगविभागशब्दा एव शब्दासमवायिकारणानि भवन्ति । स्पर्शगुरुत्वप्रयत्नवेगा एवाभिघातहेतवो भवन्ति । एकस्यैकपृथक्त्त्रसंयोगविभागाः एवाने काश्रितगुणारम्भका भवन्ति । परत्वापरत्वे एव दिक्कालपिण्डसंयोगजन्ये भवतः । परत्वापरत्वचरमज्ञानद्वित्वद्विपृथक्त्वादय एव निमित्तनाशनाश्या भवन्ति । एतदन्य एव गुणा गुणान्तरविनाश्या भवन्ति । अपार्थिव परमाणुगतरूपरसस्पर्शसांसिद्धिकद्रवत्वस्नेहगुरुत्वस्थितिस्थापक नित्यद्रव्यगतैकत्व पृथक्त्वपरिमाणेश्वर बुद्धीच्छाप्रयत्ना एते नित्या अकार्याश्च सन्ति । एतदन्ये गुणास्तु अनित्याः कार्याश्च
२६४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org