________________
२६२
न्यायकोशः। गुणेस्त्रियाम् ( पाणिनिसू० २।३।२५) इति तृतीयापञ्चमीविधायकसूत्रस्थगुणशब्दस्यार्थः। यथा वह्निमान् धूमात् इत्यत्र धूमो गुणः । जाड्यात् जाडयेन वा बद्धः इत्यादौ जाड्यादिर्गुणः । अत्र धूमस्य स्वज्ञाप्यवह्नयाश्रये आश्रितत्वाद्गुणत्वम् । जाड्यस्य च स्वप्रयोज्यबन्धनाश्रये आश्रितत्वाद्गुणत्वम् ( व्युत्प० का० ३.)। २५ रूपादयश्चतुर्विंशतिर्गुणा इति वैशेषिका नैयायिकाश्चाहुः । तल्लक्षणं च [क] द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् ( वै० १।१।१६ )। [ख] सामान्यवानसमवायिकारणमस्पन्दात्मा ( त० भा० अर्थनि० पृ० ३२ )। [ग] द्रव्यकर्मभिन्नत्वे सति सामान्यवान् । [घ ] गुणत्वरूपजातिमान् ( त० दी० १ पृ० ६) ( त० कौ० १ पृ० १ ) । गुणत्वं च समवायिकारणावृत्तिनित्यवृत्तिसत्तासाक्षाव्याप्यजातिमत्त्वम् । कार्यासमानाधिकरणकर्मावृत्तिजातिमत्त्वं वा इत्यादि (वै० उ० ७।१।१ पृ० २८१ )। अथवा समवायिकारणासमवेतासमवायिकारणभिन्नसमवेतसत्तासाक्षाव्याप्यजातिः (सर्व० पृ० २१५ औलू० )। असमवायिकारणभिन्नाश्च आत्मविशेषगुणाः बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाः भवन्तीति विज्ञेयम्। एतेषामसमवायिकारणत्वं नैयायिका न स्वीकुर्वन्ति । यद्वा द्रव्येतरवृत्तितानवच्छेदकद्रव्यसामान्यवृत्तितावच्छेदकपदार्थविभाजकोपाधिमत्त्वम् (वाक्य० १ पृ० २)।अथवा द्रव्यावृत्तिनित्यवृत्तिजातिमत्त्वम् (ल०व० पृ० ४ )। अथवा द्रव्यत्वव्यापकतावच्छेदकसत्तान्यजातिमत्त्वम् (मु० गु० पृ० १९१)। न्यायनये गुणाश्चतुर्विंशतिः । रूपम् रसः गन्धः स्पर्शः संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् गुरुत्वम् द्रवत्वम् स्नेहः शब्दः बुद्धिः सुखम् दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः संस्कारः इति । रूपाद्यपरत्वान्ताः एकादश बुद्ध्यादिप्रयत्नान्ताः षट् चेति सप्तदश गुणा इति कणादसूत्रे (वै० १।१।६) उक्तम् । सूत्रस्थचकारो गुरुत्वादीनवशिष्टान् सप्त समुच्चिनोतीत्येवं चतुर्विंशतिगुणा भवन्तीति प्रशस्तपादाचार्यादय आहुः । अत्रेदं बोध्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org