________________
न्यायकोशः।
२६१
गुणः-१ प्रमाया असाधारणकारणम् । यथा प्रमाया गुणजन्यत्वम् उत्पत्ती परतस्त्वम् इत्यादौ । प्रत्यक्षे विशेषणविशेष्यसंनिकर्षो गुणः ( भा० प० गु० श्लो० १३२-१३५ ) । अनुमितौ च व्यापकवति व्याप्यज्ञानं यथार्थपरामर्शः गुणः (त० दी० प्रामा० प० ३७ ) ( चि० १ प्रामा० )। प्रमाया असाधारणकारणमित्यस्य प्रमात्वाधिकदेशवृत्तिधर्मानवच्छिन्नप्रमानिष्ठकार्यतानिरूपितकारणताशालीत्यर्थः । तेन ज्ञानमात्रहेतुभूतात्ममनःसंयोगादेः भ्रमजनकपित्तादिदोषाणां च व्युदासः ( नील० प्रामा० पृ० ३४-३५ )। २ अप्रधानम् । यथा षष्ठीं कुर्यात्तदा गुणे तद्गुणसंविज्ञानबहुव्रीहिः इत्यादौ इति । ३ वस्तुधर्मो गुण इति वैयाकरणादय आहुः। ४ अङ्गम् । यथा गुणवाद इत्यादौ । यथा वा दध्ना जुहोतीत्यादौ प्रधाने यागादौ आधेयविशेषो दध्यादिः गुण इति मीमांसकाः । ५ सत्त्वे निविशतेपैतिं पृथग्जातिषु दृश्यते । आधेयश्चाक्रियाजश्च सोसत्त्वप्रकृतिर्गुणः ॥ इति शाब्दिका आहुः । अस्यार्थस्तु सिद्धान्तकौमुदीव्याख्यायां तत्त्वबोधिन्यां स्त्रीप्रत्ययप्रकरणे वोतो गुणवचनात् ( पाणिनिसू० ४।१।४४ ) इति सूत्रे उक्तः तत एव द्रष्टव्यः । ६ अकारः एकार: ओकारश्चैते त्रयो गुणा इत्यपि शाब्दिकाः संगिरन्ते । ७ सत्त्वम् रजः तमश्चैते द्रव्यात्मकाः त्रयो गुणा इति सांख्याः । ८ ज्ञानानन्दादयोपि गुणा इति वेदान्तिनः। ९ शमदमतितिक्षादयो गुणा इति योगिनः । १० शौर्यादयो गुणा इति व्यवहारज्ञाः। ११ संधिविग्रहादयः षड्गुणा इति नीतिशास्त्रज्ञाः । १२ श्लेषादयो दश माधुर्योजःप्रसादा इति त्रयो गुणा इत्यालंकारिकाः। १३ अकार्पण्यास्पृहत्वादय इति धर्मज्ञाः । १४ देशकालज्ञतादयश्चतुर्दश गुणा इति पौराणिकाः । १५ उष्णाद्यष्टविधं वीर्य गुण इति भिषजः। १६ विशेषणमिति भर्तृहरिः। १७ उत्कर्षः । १८ इन्द्रियम् इत्यपरे। १९ आवृत्तिरिति तात्रिकाः । २० रज्जुः । २१ सूपकारः । २२ त्याग इति काव्यज्ञाः। २३ दोषान्यधर्मो गुण इत्यन्ये आहुः ( वाच० )। २४ कार्यस्य ज्ञाप्यस्य वा आश्रये य आश्रितः स गुणः । अयं च विभाषा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org