________________
२६०
न्यायकोशः। गर्वः-१ अभिमानः । २ अवज्ञाविशेषः । तत्रोक्तम् । ऐश्वर्यरूपतारुण्यकुलविद्याबलैरपि । इष्टलाभादिनान्येषामवज्ञा गर्व ईरितः ॥ इति । ३ मदः। तदुक्तम् गर्यो मदः प्रभावश्रीविद्यासत्कुलतादिजः इति । व्यभिचारिभावः इत्यालंकारिका वदन्ति । स च अवज्ञासविलासाङ्ग
दर्शनाविनयादिकृत् इति ( वाच० )। गलग्रहः—कृष्णपक्षे चतुर्थी च सप्तम्यादिदिनत्रयम् । त्रयोदशीचतुष्कं च
अष्टावेते गलग्रहाः ॥ ( पु० चि० पृ० ४३८)। .. गवीधुकः-अरण्यस्थो गोधूमः (जै० न्या० अ० १० पा० ८ अधि०४)। गानम्-[क ] स्वरविशेषेण निष्पाद्यः परिणतः शब्दविशेषः । [ख]
गीतिः । सा च आभ्यन्तरयत्नजनितस्वरविशेषाणामभिव्यञ्जिका क्रिया। यथा सामगानम् । गानं हि द्विविधम् । वैदिकं लौकिकं च । तत्र वैदिकलक्षणम् जैमिनिसूत्रभाष्ये ( ९।२।२९) प्रतिपादितम् तत् तत्र द्रष्टव्यम् । लौकिकं तु धातुमात्रासमायुक्तं गीतमित्युच्यते बुधैः । तत्र नादात्मको धातुर्मात्रा ह्यक्षरसंचयः ।। गीतं च द्विविधं प्रोक्तं यत्रगात्रविभागतः । यत्रं स्याद्वेणुवीणादि गात्रं तु मुखजं मतम् ॥ पुनर्गीतं निबन्धानिबन्धभेदेन द्विविधम् । तत्र निबन्धं तालमानरसाश्चितम् ।
अनिबन्धं तु वर्णादिनियमशून्यम् इत्यादि (संगीत० दा० ) (वाच०)। गान्धर्वः– ( विवाहः ) गान्धर्वः समयान्मिथः ( याज्ञवल्क्य० अ० १
श्लो० ६१ )। गीतम्-१ छान्दसहार्दएतदन्यतरस्वरेण गुणकीर्तनम् । यथा ध्रुवकादि
गानम् । २ गान्धर्वशास्त्रसमयानुसारेण महेश्वरसंबन्धिगुणधर्मादिनिमित्तानां चिन्तनमिति नकुलीशाचार्यो वक्ति ( सर्व० सं० पृ०१६९
नकु० ) । अधिकं तु गानशब्दव्याख्यानावसरे संपादितम् । गुच्छ:-अवल्लीरूपाः असरलप्रायाः कुरण्टकादयः ( मिताक्ष० अ० २
श्लो० २२९)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org