________________
२५९
न्यायकोशः। समासः इति । एकदेशान्वयस्य शास्त्रे निषिद्धत्वेप्यत्र नित्यसाकाङ्कत्वेन चैत्रपदार्थस्य गुरुत्वे मैत्रपदार्थस्य च दासत्वे निरूपितत्वसंबन्धेनान्वयः सर्वैरुपगम्यत इति समासः संपद्यत इति बोध्यम् । यथा वा काकतालीयमित्यत्र गमकत्वाद्वृत्तिः संपद्यते इति ( कुवलया० )। गमकम्-१ गतिप्रयोजकम् बोधकं वा । यथा यत्प्रौढत्वमुदारता च वचसां यच्चार्थतो गौरवं तच्चेदस्ति ततस्तदेव गमकं पाण्डित्यवैदग्ध्ययोः (मालतीमा० ) इत्यादौ । २ स्वरविशेष इति गायका आहुः । तत्रोक्तम् गमकः स्वश्रुतिस्थानस्थानां श्रुत्यन्तराश्रयात् । स्वरो यो मूर्छनामेति गमकः स इहोच्यते ॥ कम्पितः स्फुरितो लीनो भिन्नः स्थविर एव च। आहतान्दोलितौ चेति गमकाः सप्त कीर्तिताः ॥ इति ( संगी० दा० ) ( वाच० )। गमनम्—(कर्म ) [क] गमनत्वजातिमत् (वै० उ० १।१।७ ) ( त० कौ० )। [ख] उत्क्षेपणादिचतुष्टयभिन्नत्वे सति कर्मत्ववत् । अत्रेदं बोध्यम् । उत्क्षेपणादिसर्वकर्मसु यदि गमनव्यवहारस्तदा गमनस्य पृथगभिधानं भ्रमणरेचनस्पन्दनोव॑ज्वलनोन्नमनादीनां भिन्नभिन्नबुद्धिव्यपदेशभाजामेकेन शब्देन संग्रहार्थम्। यद्वा गमनत्वमपि कर्मत्वव्याप्या पञ्चमी जातिरेव । तेन भ्रमणरेचनादिष्वेव गमनप्रयोगो मुख्यः । उत्क्षेपणापक्षेपणादिषु यदि गमनप्रयोगस्तदा भाक्तः । स्वाश्रयसंयोगविभागासमवायिकारणत्वमेव गौणमुख्यसाधारणो धर्मः । गमनत्वजातेस्तु अनियतदिग्देशसंयोगविभागासमवायिकारणत्वमेव व्यञ्जकम् । तच्च भ्रमणादिषु सर्वत्रेति गमनग्रहणेनैव तेषां ग्रहणमिति (वै० उ० १।११७)। तञ्च कर्म स्वाश्रयसंयोगविभागासमवायिकारणक्रियाविशेषः (वाच.)। अथवा उत्तरदेशसंयोगजनकक्रिया ( ल० व० )। यथा ग्रामं गच्छतीत्यादौ संयोगावच्छिन्नस्पन्दो गच्छत्यर्थः (ग० व्यु० २ ) । विजिगी
षोर्जिगमिषोर्वा प्रयाणं गमनमिति काव्यज्ञा वदन्ति । गर्तः–रूपादिमद्भिः सावयवारब्धकार्यैर्मध्यशून्यैः संस्थानविशेषोपहित
माकाशम् (न्या० वा० १।१।१४ पृ० ८१ )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org