________________
२५८
न्यायकोशः। धातवः ते ज्ञानार्थकाः इति वैयाकरणानां नियमोनुसंधेयः । ३ परिणामः । ४ प्रमाणम् । ५ सरणिः । ६ स्थानम् । ७ स्वरूपम् । ८ विषयः । ९ अभ्युपायः इति काव्यज्ञा आहुः । १० नाडीव्रणमिति भिषजः । ११ प्रादयो निपाताः शब्दविशेषा इति शाब्दिका आहुः (वाच० )। गन्धः-(गुणः ) [क] घ्राणपाह्यो योर्थः सः । स च पृथिवीमात्रवृत्तिः (त० सं० ) बायैकेन्द्रियग्राह्यश्च यथा वर्जयेन्मधु मांसं च गन्धं माल्यं रसान स्त्रियः ( मनु० ) इत्यादौ । यथा वा पृथिवी गन्धवतीत्यादौ (त० सं० )। गन्धलक्षणं च गन्धत्वमेव । तच्च घ्राणमात्रग्राह्यगुणत्वव्याप्यजातिमत्त्वम् । अथवा पृथिवीमात्रवृत्तिवृत्तिर्गुणत्वसाक्षाव्याप्या च या जातिः तादृशजातिमत्त्वम् (वै० उ० ७१।६ )। तादृशजातिस्तु गन्धत्वम् । [ख] घाणमात्रग्राह्यो गुणः (वै० उ० ७१।६ ) । अत्र मात्रपदप्रयोजनं चिन्त्यम् । [ग] घ्राणमात्रग्राह्यजातिमान् (त० कौ० १ पृ० ४) । स च गन्धो द्विविधः सुरभिः असुरभिश्च । द्विविधोपि गन्धः पृथिव्यामेवास्ति । स च पाकजः अनित्यश्च (त० कौ० १ पृ० ४)। पाकजप्रक्रिया त्वन्यत्र ( वै० ७११६) द्रष्टव्या । जलादौ तूपाधिकृतो गन्धः । उत्कटानुत्कटभेदेनापि गन्धो द्विविधः । तत्र कस्तूर्यादावुत्कटः । पाषाणादौ त्वनुत्कटः। तत्रोत्कटगन्ध एवोपलभ्यते न त्वनुत्कटः इति। एवम् रसादयो ज्ञेयाः । शास्त्रान्तरे तु गन्धो दशविधः इत्युक्तम् । यथा इष्टश्चानिष्टगन्धश्च मधुरोम्ल: कटुस्तथा । निर्हारी संहतः स्निग्धो रूक्षो विशद एव च ॥ एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत इति । तत्रेष्टः १ कस्तूरिकादौ । अनिष्टः २ विष्ठादौ । मधुरः ३ मधुपुष्पादौ । अम्लः ४ तिन्तिड्यादौ। कटुः ५ मरिचादौ। निर्हारी ६ हिङ्ग्यादौ । संहतः चित्रगन्धः ७ अनेककल्कद्रव्यादौ । स्निग्धः ८ सद्यस्तप्तघृतादौ । रूक्षः ९ सार्षपतैलादौ । विशदः १० शाल्यादौ इति ( आश्व० अ० ५० ) ( वाच० )। गमकत्वम्-नित्यसाकाङ्कत्वम् । यथा चैत्रस्य गुरुकुलम् मैत्रस्य दासभार्येत्यादौ गमकत्वात्समासः इति । तदुक्तं महाभाष्ये सापेक्षत्वेपि गमकत्वा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org