________________
२५०
न्यायकोशः। इति । अत्र साध्यात्मकक्रियाया लिङ्गसंख्यान्वयित्वाभावेन तद्विशेषणस्तोकादिवाचकपदस्योत्सर्गत एकवचनक्लीवता। अत एव स्तोक पच्यत इत्यादि साधु संगच्छते। घबाद्यन्ते साध्यसिद्धोभयक्रिययोर्धातुप्रत्ययाभ्यां बोधनस्थले तु कातन्त्रपरिशिष्टाद्युक्ते स्तोकं पाकः इत्यादौ धातुबोध्यसाध्यरूपक्रियाविशेषणत्वविवक्षायामेकवचनक्लीबता । घब्वाच्यसिद्धक्रियान्वयविवक्षायां तु विशेषणस्य लिङ्गसंख्यान्वयित्वेन तद्विशेषणपदस्य द्विवचनपुंस्त्वादि । अत एव संचारो रतिमन्दिरावधि सखीकर्णावधि व्याहृतम् इति आगमो निष्फलस्तत्र भुक्तिः स्तोकापि यत्र नो इति च प्रयोगः संगच्छते इति शाब्दिकमतम् । अत्र केचिन्नैयायिकास्तु शुद्धधात्वर्थविशेषणत्वविवक्षायां द्वितीयैव । घनाद्यन्तसमुदायविशेषणत्वे तु न द्वितीयाक्लीबतानियमः । अत एव स्तोकं पाकः इति प्रयोगो न साधुः इत्याहुः । वस्तुतस्तु क्रियाविशेषणानां कर्मत्वम् इत्यत्र क्रियेति पदस्य सार्थकप्रत्ययान्तधातूपस्थाप्यार्थः इत्यर्थपरत्वेन न कुत्राप्यनुपपत्तिः इति विज्ञेयम् (ग० व्यु० का० १ पृ० ६) । अत्रायं विशेषः । स्तोकपक्तेत्यादौ क्रियाविशेषणैः कर्मधारय एव । महाकविर्महाविज्ञ इत्यादौ कवित्वादाविव प्रकृतेप्येकनामार्थेकदेशे पचनादावपरनामार्थस्याभेदान्वयबोधकतया कर्मधारयस्य संभवात्। स्तोकं पक्तेत्यादावमस्तादात्म्यवाचित्वे तत्पुरुषः संभवत्येव। अयमाशयः। यत्राभेदेनान्वयबोधस्तत्र कर्मधारयः। यत्र च भेदेनान्वयबोधस्तत्र तत्पुरुषः इति मर्यादा । एवं च प्रकृते तादात्म्यस्याम्वाच्यत्वेन पदोपस्थापितत्वात् पदादुपस्थापितस्य प्रकारतयापि भानं संभवति इति नियमेनाम्वाच्यस्तोकतादात्म्यस्याश्रयतासंबन्धेन पचनक्रियायामन्वयो वाच्यः । तथा च तादृशसंबन्धस्य भेदसंबन्धत्वात्तत्पुरुषः इति । क्रियाविशेषणैः समास एवाव्युत्पन्नः इति तु न देश्यम् । स्तोकनम्रा स्तनाभ्याम् ( मेघदू० २।१९) इत्यादेः कालिदासाद्यैः
प्रयुक्तत्वात् ( श० प्र० श्लो० ३८ पृ० ४८ )। क्रीतानुशयः-क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते । क्रीतानुशय
इत्येतद्विवादपदमुच्यते ॥ ( मिताक्षरा २।१७७ )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org