________________
न्यायकोशः।
२४९ यथा तस्मिन्नुपायाः सर्वे नः क्रूरे प्रतिहतक्रियाः (कुमा० २।४८) इत्यादौ। ५ अनुष्ठानम् । यथा यथाक्रमं पुंसवनादिकाः क्रियाः (रघु० ३।१०)। यथा वा आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते
(जैमि० सू० १।२।१ ) इत्यादौ । ६ शिक्षा । यथा क्रिया हि वस्तू- पहिता प्रसीदति (रघु० ३।२९) इत्यादौ । ७ चिकित्सा । यथा क्रियाः
सर्वा गतायुषः ( सुश्रुते० ) इत्यादौ । मोघा इति शेषः । ८ धात्वों व्यापारमात्रम् । यथा तेन तुल्यं क्रिया चेद्वतिः (पा० सू० ५।१।११५) क्रियासमभिहारे यङ् ( पा० सू० ३।१।२२ ) इत्यादौ । ९ धात्वर्थः फलमात्रम् । यथा कर्मवत् कर्मणा तुल्यक्रियः ( पा० सू० ३।११८७) इत्यादौ । १० श्राद्धम् । यथा चतुर्दश्यां क्रियाः कार्या अन्येषां तु विगर्हिताः ( मरीचि० ) इत्यादौ ( वाच०)। ११ प्रमाणदर्शनम्
(पुरावा इति प्र०)। क्रियायोगः-तपःस्वाध्यायेश्वरप्रणिधानानि ( पात० सू० २।१ ) ( सर्व०
सं० पृ० ३६७ पातञ्ज०)। क्रियाविशेषणम्-धात्वर्थसाध्यात्मकक्रियायां शाब्दबोधे विशेषणत्वेन
भासमानः पदार्थः । यथा स्तोकं पचति मृदु पचतीत्यादौ स्तोकमृद्वादि विक्लित्त्यादिरूपधात्वर्थविशेषणम् । अत्र विशेष्यतेनेनेति विशेषणम् इति व्युत्पत्त्या विशेषणपदं भेदाभेदान्यतरसंबन्धेनान्वयिविशेषणपरम् । तथा च आख्यातं सकारकविशेषणम् इति महाभाष्येण चैत्राभ्यां सुप्यते देवदत्त जानीहि इत्यादौ कारकादीनां चैत्रदेवदत्तादीनां भेदसंबन्धेन क्रियाविशेषणत्वम् । स्तोकं पचतीत्यादौ तु विक्लित्तिरूपे धात्वर्थफले द्रुतं गच्छति इत्यादी धात्वर्थव्यापारे अभेदेन स्तोकद्रुतादीनां विशेषणत्वम् इति ज्ञेयम् । अत्रेदं बोध्यम् । भेदसंबन्धेन क्रियायामन्वयिविशेषणे पौनःपुन्येन गच्छति अतिशयेन पचति समेनैति विषमेणैति इत्यादिषु प्रकृयादित्वेन तृतीयेति केचिदाहुः । अन्ये तु नाम्ना शिवः इत्यादिवदभेदे तृतीयेत्याहुः । अत्रायं विवेकः। क्रियायामभेदसंबन्धेनान्वयविवक्षायाम् क्रियाविशेषणान कर्मत्वम् इत्यनुशासनेन द्वितीया । भेदप्रकारेणान्वयविवक्षायां तु तृतीया १२ न्या० को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org