________________
न्यायकोशः ।
૨૪૦
1
क्रयः ——— मूल्यदानजन्यस्वत्वस्य जनकः स्वीकारः । स्वत्वजनकं मूल्यदानं वा । यथा ग्रामं क्रीणातीत्यत्र धात्वर्थः । अत्र ऋयफले स्वत्वे ग्रामस्यावेयत्वेनान्वयः। तेन ग्रामनिष्ठस्य मूल्यदानजन्यस्वत्वस्यानुकूलस्वीकारवान् प्रामनिष्ठं यत् स्वत्वम् तदनुकूलमूल्यदाता वा इति तत्र क्रमेण बोध: (श० प्र० श्लो० ७२ पृ० ९६ ) । ऋयस्य स्वत्वहेतुत्वमुक्तं मनुना सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ ( मनु० १० श्लो० ११५ ) इति । गौतमेनाप्युक्तम् स्वामी रिक्थक्रय संविभागपरिग्रहाधिगमेषु इति । क्रयादिरूपागमसहितभोगस्यैव स्वत्वे प्रामाण्यम् ( वीरमित्रो ० ) । अत्रेदं बोध्यम् । वैदिककर्माङ्गपरिक्रयादौ प्रायेण यजमानस्यैवाधिकारोस्ति इत्याह जैमिनि: ( जैमि० सू० ३।८।१ ) । अथवा ऋयो नाम मूल्यदानप्रयुक्तस्वसंबन्धिस्वत्वोत्पादकस्वीकारः । यथा गां क्रीणातीत्यादौ । अत्र गोवृत्तिमूल्यदानप्रयुक्तस्वस्वत्वानुकूलस्वीकारानुकूलकृतिमान् इत्यन्वयबोधः इति संप्रदायः ( का० व्या० पृ० ५ ) । शाब्दिकाः मूल्यदानपूर्वकस्वीकार इत्याहुः I ( ल० म० ) । केचित्तु पणपूरणादिमूल्यदानेन विक्रेतुः स्वत्वापनयनेन स्वत्वोपांदनव्यापारः क्रय इत्याहु: ( वाच० ) ।
क्राथनम् - असुप्तस्यैव सुप्तलिङ्गवद्दर्शनम् ( सर्व० सं० पृ० १७० नकुली ० ) ।
क्रिया - १ धात्वर्थः । स च धातूपनीतफलानुकूल सजातीयविजातीयव्यापारप्रचयः ( त० प्र० ख० ४ पृ० ५० ) । यथा चैत्रस्तण्डुलं पचतीत्यादौ पचनादिक्रिया ( ल० म० ) । इयं च क्रिया मतभेदेन फलविशिष्टव्यापाररूपा फलव्यापारोभयरूपा वा इत्यन्यदेतत् । क्रिया च भावना उत्पादयितुर्व्यापाररूपा साध्यत्वेनाभिधीयमाना इति ( वाच० ) । तथा चोक्तं हरिणा व्यापारो भावना सैवोत्पादना सैव च क्रिया ( वाक्यप० ) इति । साध्यत्वसाधनत्वएतदन्यतररूपेण प्रतीय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org