________________
२४६
न्यायकोशः।
:पक्त्वा भुज्यत इत्यादिभावार्थ कक्त्वाप्रत्ययस्थले पाकक्रियाविशिष्टां
भुजिक्रिया ( कृष्ण० )। क्यच् (धात्वंशः प्रत्ययः ) इच्छा । यथा चैत्रः पुत्रीयतीत्यादौ पुत्रीयति
माणवकमित्यादौ च । एवम् श्येनायते काक इत्यादौ क्योंपि बोध्यः । अयं च प्रत्ययो नामप्रकृतिको बोध्यः । अत्र क्यजथेच्छायां तत्प्रकृत्यर्थतावच्छेदकीभूतपुत्रत्वाद्यवच्छिन्नविषयतया प्रकृत्यर्थस्य पुत्रादेरन्वयः । तस्याश्च तिङर्थे आश्रयत्वे निरूपकत्वेनान्वयः । तथा च पुत्रत्वेन पुत्रगोचरेच्छाया आश्रयत्ववांश्चैत्रः इत्येवमन्वयधीः (श०प्र० श्लो० १०७ पृ० १६५ )। अत्र क्यजन्तस्याकर्मकत्वमेव विज्ञेयम् (ग० व्यु० का० २ ख० २ पृ० ६५)। पुत्रीयति माणवकमित्यत्र च आचारसहशाचारः क्यजर्थः। तत्र विशेषणीभूत आचारे कर्मत्वेन प्रकृत्यर्थस्यान्वयः। विशेष्यीभूते च माणवकादेः कर्मत्वेनान्वयः । तेन पुत्रकर्मकाचरणसदृशं यन्माणवककर्मकाचरणं तदनुकूल कृतिमान् इत्याकारकस्तत्र बोधः ( श० प्र० श्लो० १०७ पृ० १६५)। पुत्रकर्मकाचरणं चेह अन्नपानादिना संवर्धनतोषणादि ज्ञेयम् । अत्रार्थे क्यजन्तस्य सकर्मकत्वं बोध्यम् (ग० व्यु० का० २ ख० २ पृ० ६५) । अधिकं तु द्वितीयाशब्दव्याख्यानावसरे संपादयिष्यते । श्येनायते काक इत्यत्रापि आचारसदृशाचारः क्यङर्थः । तत्र च प्रकृत्यर्थस्य श्येनादेः कर्तृत्वेनैव अन्वयः। श्येनकर्तृकाचारसदृशाचारवान्काकः इत्येवं तत्र बोधः । अत्र श्येनकर्तृकाचारश्च मांसहरणादि ह्यः ( श० प्र० श्लो० १०७ पृ० १६६ )। क्रमः- १ उद्दिष्टानामर्थवशाद्यथावगृहणम् । यथा द्रव्यनिरूपणानन्तरं
क्रमेण गुणादिकं निरूप्यते इत्यादौ । २ अर्थानां नैयत्येन पूर्वापरावस्थानम् । यथा उद्देशक्रमेण द्रव्यादिनिरूपणम् इत्यादौ । ३ परिपाट्यां यथोचितसंनिवेशः ( वाच० ) । यथा शेषशेषिभावे अधिकृताधिकारे वा सत्येव वैदिककर्मणोनुष्ठाने पौर्वापर्यरूपक्रमग्रहणम् इत्यादौ । अत्र
मीमांसकमते कर्मक्रमनियामकानि प्रमाणानि श्रुत्यर्थपाठस्थानमुख्य... प्रवृत्त्याख्यानि षड्विधानि ज्ञेयानि ( मीमांसान्यायप्रकाश पृ० ७३ )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org