________________
२४५
न्यायकोशः। कौमुदी–आश्विन्यां पौर्णमास्यां च अर्जागरणं निशि । कौमुदी सा
समाख्याता कार्या लोकविभूतये ॥ (पु० चि० पृ० ३०२ )। क्त्वा—(प्रत्ययः) पूर्वकालीनत्वम् कर्ता च (तर्का० ४ पृ० ११ )।
यथा भुक्त्वा व्रजतीत्यादौ भोजने व्रजनपूर्वकालीनत्वं क्त्वाप्रत्ययार्थः ( त० प्र० ४ पृ० ७०-७२ )। अत्र पूर्वत्वं च संनिहितक्रियापेक्षया बोध्यम् । क्रियापूर्वकालीनत्वं च क्रियाप्रागभावकालवृत्तित्वम् क्रियोत्पत्तिकालीनध्वंसप्रतियोगिकालवृत्तित्वं वा । तेन भुक्त्वा व्रजतीत्यत्र गमनप्रागभावावच्छिन्नकालवृत्तिभोजनकभिन्नो व्रजति इत्यर्थः । अत्र कालस्तात्पर्यवशात् व्यवहिताव्यवहितसाधारणो बोद्धव्यः । तेन पूर्वस्मिन्नब्दे गत्वास्मिन्नब्दे · समागतः इत्यत्र तादृशप्रयोगावगमः ( तर्का० ४ पृ० ११ )। केचित्तु अव्यवहितपूर्वकालीनत्वमित्याहुः । अत्र अव्यवधानं च क्रियान्तरानुकूलविलम्बाभाववत्त्वम् । केचित्तु तदुत्पत्तिक्षणोत्पत्तिकध्वंसप्रतियोगिकालत्वमेव तद्व्यवहितपूर्वकालत्वम् । कालश्चात्र यावता कालेन भोजनानन्तरं व्रजनं तावान् स्थूलकालोपाधिविशिष्य निवेशनीयः । तेन नासंभवः इत्याहुः ( त० प्र० ख० ४ पृ० ७० )। प्राभाकरास्तु समाकर्तृकत्वमेव क्त्वाप्रत्ययार्थ इत्याहुः । मणिकृतस्तु आनन्तर्यमेव तदर्थ इत्याहुः । अन्ये तु क्वचित् सामानाधिकरण्यविशिष्टव्याप्यत्वमपि क्त्वार्थ इत्याहुः । अधीत्य तिष्ठतीत्यत्र निरन्तराध्ययनशालिन्येव तथा प्रयोगात् अयमर्थ आवश्यकः । अत्र व्याप्तिश्च कालिकी । तथा च अध्ययनसामानाधिकरण्यविशिष्टाध्ययनव्याप्यस्थितिमान् इत्यन्वयधीः (त० प्र० ख० ४ पृ० ७२ )। अपरे तु आश्रय एव क्त्वाप्रत्ययार्थ इत्याहुः । अयं भावः। क्त्वाप्रत्ययस्य कृत्प्रत्ययान्तर्गतत्वात् सामान्यशक्त्या आश्रयोपस्थितेः कृत्प्रत्ययेन संभवात् मुखं व्यादाय स्वपिति इत्यादौ स्वापपूर्वकालीनत्वस्य मुखव्यादाने असत्त्वेपि व्यादानाश्रये स्वापाश्रयत्वस्य विशिष्टे वैशिष्ट्यम् इति न्यायेनैव बोधः (त० प्र० ख० ४ पृ० ७२)। अन्ये त्वाहुः । स्वकर्तृकत्वस्वोत्तरत्व एतदुभयसंबन्धेन यत्किंचिद्विशिष्टं क्त्वाप्रत्ययार्थः । यथा ओदनं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org