________________
न्यायकोशः।
२४३ ( न्या० बो० पृ० १५) । यथा अभिधेयत्वम् ज्ञेयत्वम् प्रमेयत्वम् वाच्यत्वं च केवलान्वयि भवति ( न्या० म० २ पृ० १९)। अत्राभिधेयत्वं भगवदिच्छारूपशब्दशक्तिविषयत्वम् । तच्च सर्वत्रैव वर्तते । तस्य न कुत्राप्यत्यन्ताभावोस्ति । सर्वस्यैव भगवदिच्छाविषयत्वात् । वस्तुपदशक्यत्वात् । एवं वाच्यत्वम् । ज्ञेयत्वं च ज्ञानविषयत्वम् । तञ्च सर्वत्रैव वर्तते । सर्वस्यैव भगवज्ञानविषयत्वात् । एवम् प्रमेयत्वं प्रमाविषयत्वम् । तच्च सर्वत्रैव वर्तते । सर्वस्यैव भगवत्प्रमाविषयत्वात् (न्या० म० २ पृ० १९)। प्रमाजातीयविषयत्वं वा प्रमेयत्वम् । अथवा प्रमात्वमेव हि परंपरासंबन्धात् स्वाश्रयप्रमाविषयत्वरूपात घटादौ प्रमेय
त्वमनुगतम् ( चि० २ पृ० ४७ )। केवलान्वयिहेतुः—(अवयवः) अत्यन्ताभावाप्रतियोगिसाध्यसमानाधि
करणपक्षसपक्षसद्धेतुवचनम् (चि० २ अव० पृ० ७९) । यथा घटोभिधेयः प्रमेयत्वादित्यादौ प्रमेयत्वात् इति हेतुपदम् । कैवल्यम्-१ मोक्षः। स च आत्यन्तिकदुःखत्रयविगम इति सांख्याः
( सां० भा० ) । पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यम् स्वरूपप्रतिष्ठा चितिशक्तिः इति योगिन आहुः । पुरुषस्य निर्लेपस्य कैवल्येनावस्थानं कैवल्यम (सर्व० सं० पृ० ३३६ पात०)। अद्वितीय
ब्रह्मभावापत्तिरिति मायावादिनः । २ एकत्वम् (ग० शक्ति० )। कोटिः-१ संशयजनकज्ञानीयप्रकारतावान् । यथा वह्निमान्न वेत्यादिविप्रतिपत्तिवाक्यजन्यकोट्युष स्थितिः इत्यादौ वह्नयादिः । २ पूर्वपक्षः । ३ त्रिकोणादिक्षेत्रावयवरेखाविशेषः कोटिरिति लीलावतीकारादयः । ४ राशिचक्रस्य तृतीयांश इति ज्योतिर्विदः। ५ संख्याविशेष इति
गणकाः । ६ प्रकर्षः । ७ अप्रभाग इति काव्यज्ञा वदन्ति । कोटिता-प्रकारताविशेषः (ग० सत्प्र०)। यथा वह्निमान्न वा इति संशये वह्नयादेः कोटिता।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org