________________
२४२
न्यायकोशः। केवलान्वयि-१ (लिङ्गम् अनुमानं वा) [क] अत्यन्ताभावाप्रतियोगि
साध्यकम् ( दीधि० २ पृ० १५६ ) (न्या० बो० २ पृ० १५)। यथा न तावदव्यभिचरितत्वम् । तद्धि न साध्यवदन्यावृत्तित्वम् । केवलान्वयिन्यभावात् (चि० २ पृ. २) इत्यादौ । केवलान्वयि तु चतूरूपोपपन्नमेव स्वसाध्यं साधयितुं क्षमते । चत्वारि रूपाणि च पक्षधर्मत्वम् सपक्षे सत्त्वम् अबाधितविषयत्वम् असत्प्रतिपक्षत्वं चेति (सि० च० )। तत्र हि सर्वस्यैवाभिधेयत्वाद्विपक्षासत्त्वम् (मु० गु० पृ० २१९)। तस्य विपक्षाभावेन विपक्षव्यावृत्त्यभावादिति भावः ( सि० च० २ पृ० २७)। अत्यन्ताभावाप्रतियोगिसाध्यकमित्येतल्लक्षणं च हेतोय॑तिरेकित्वेपि संगच्छते (न्या० बो० पृ० १५)। [ख] असद्विपक्षम् । तदर्थस्तु पक्षव्यापकम् सपले वर्तमानम् विपक्षशून्यम् अबाधितविषयम् असत्प्रतिपक्षम् इति ( ता० र० श्लो० १६)। यथा ज्ञेयमभिधेयत्वादित्यादौ (मु० गु० पृ० २१९)। अत्र केवलान्वयिनोभिधेयत्वस्य न विपक्षः । अभिधानेनभिधाने च विपक्षत्वव्याघातात् (चि० २ पृ० ४६ )। [ग] अन्वयमात्रव्याप्तिकम् (त० सं०)। तदर्थश्च व्यतिरेकाप्रतियोगिसाध्यकम् ( वाक्य० २ पृ० १५ ) । यद्वा व्यतिरेकव्याप्तिशून्यत्वे सत्यन्वंयव्याप्तिमत् (न्या० बो० २ पृ० १५)। अत्र अन्वयेनैव व्याप्तियस्मिंस्तत्तथा इति समासो द्रष्टव्यः । [घ] यत्रान्वयव्याप्तिरेवास्ति तत् (त० कौ० २ पृ० ११ ) । यथा घटोभिवेयः प्रमेयत्वादित्यत्र प्रमेयत्वं केवलान्वयि (त० सं० )। अत्र घटः पक्षः। तस्याभिधेयत्वं साध्यम् । प्रमेयत्वं हेतुः । तस्मिन् हेतौ यत्र यत्र प्रमेयत्वम् तत्र तत्राभिधेयत्वम् यथा पटः इत्यन्वयव्याप्तिरेवास्ति। नतु यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः इति व्यतिरेकव्याप्तिरस्ति । अभिधेयत्वस्य प्रमेयत्वस्य च सर्वत्र सत्त्वात् साध्याभावादेरेवाप्रसिद्धत्वात् (त० कौ० २ पृ० ११) (मु० गु० पृ० २१९)। २ यो धर्मः सर्वत्र वर्तते यस्य चात्यन्ताभावः अप्रसिद्धः स धर्मः केवलान्वयी। लक्षणं च अत्यन्ताभावाप्रतियोगित्वम् (चि० २ पृ० ४६ ) (त०दी०)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org