________________
न्यायकोशः।
२३७
[ख] अनिर्धारितविशेषविशिष्टम् । यथा कीदृशो गवयपदवाच्यः इत्यादौ ( म०प्र० ३ पृ० ३४)। यथा वा कस्मै नाथ समर्थ्य कौरवकुलं व्योमान्तमालम्बसे ( उद्भटः) इत्यादौ । २ ईषदर्थः । यथा न किमप्यस्यास्ति इत्यादौ । ३ अतिशयः । यथा किमप्येष प्रगल्भते इत्यादौ । अत्र अतिशयितं प्रगल्भते इति बोधः (वाच०)। ४ प्रश्नः । यथा किमिदं किंनरकण्ठि सुप्यते (रघुः) इत्यादी ( वाच०)। ५ वितर्कः । स च प्रयोक्तुः संभावनात्मकं ज्ञानम् । यथा किमिन्दुः किं पद्मं किमु मुकुरबिम्बं किमु मुखं किमब्जे किं मीनौ किमु मदनबाणौ किमु दृशौ । खगौ वा गुच्छौ वा कनककलशौ वा किमु कुचौ तडिद्वा तारा वा कनकलतिका वा किमबला ॥ इत्यादौ किंशब्दार्थः । ६ कुत्सा । यथा किंगौरित्यादौ (ग० शक्ति० पृ० १०९-११०)। यथा वा स किंसखा ( किरा० १.५ इत्यादौ )।
एवम् वाशब्दस्याप्यों ज्ञेयः (ग० शक्ति० पृ० १०९)। किमु-(अव्ययम् ) १ प्रश्नः । २ निषेधः । ३ वितर्कः । ४ निन्दा । ___ यथा किमु भीरु ररार्यसे ( भट्टिः ) इत्यादौ ( वाच० )। किमुत-(अव्ययम् ) १ प्रश्नः । २ वितर्कः । तत्र प्रमाणम् आहो
उताहो किमुत वितर्के किं किमूत च इति ( हेम० ) ( वाच० )।
३ विकल्पः । ४ अतिशयः ( वाच० )। किल—(अव्ययम् ) १ आगमप्रसिद्धिः । यथा कंसं जघान किल वासु
देवः इत्यादौ । अत्र कृष्णकर्तृकं कंसहननमागमसिद्धम् इति बोधः । २ अरुचिः । यथा एवं किल केचिद्वदन्ति इत्यादौ । अत्र केषांचिदेवं कथनं वक्तुररुचिविषयः इति बोधः । ३ न्यक्कारः । यथा स किल योत्स्यते इत्यादौ । अत्र तस्य योधनशक्तिराहित्यद्योतनात् तिरस्कारो गम्यते । ४ संभावना । यथा पार्थः किल विजेष्यते कुरून् इत्यादौ । अत्र पार्थकर्तृककुरुविजयः संभावनाविषयः इति बोधः ।
५ हेतुः । यथा स किलैवमुक्तवान् इत्यादौ । अत्र तत्कथनस्यान्यत्र .. हेतुता द्योत्यते । ६ अलीकम् । यथा प्रसह्य सिंहः किल तां चकर्ष
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org