________________
२३६
न्यायकोशः। काव्यम्-नायकादिप्रतिपादको वाक्यसंदर्भः । यथा वाल्मीकिविरचित
रामायणं काव्यम् । आलंकारिकास्तु अदोषौ सगुणौ सालंकारौ शब्दार्थों काव्यम् । दोषवर्जितं सगुणं सालंकारं शब्दविशिष्टार्थ अर्थविशिष्टशब्द एतदन्यतरत् काव्यम् इति समुदितार्थः । तदुक्तम् । गुणालंकारसहितौ शब्दार्थों दोषवर्जितौ । गद्यपद्योभयमयं काव्यं काव्यविदो विदुः । इति ( प्रतापरु० पृ० १२ )। तददोषौ शब्दार्थौ सगुणावनलंकृती पुनः कापि इति ( काव्यप्र० उ० १ श्लो० ४)। पूर्वोक्तविशेषणविशिष्टः शब्द एव काव्यं नार्थः काव्यमिति रसगङ्गाधरकृदादय आहुः । काव्यसंपत्सामग्री तु शब्दार्थों मूर्तिराख्यातौ जीवितं व्यङ्गयवैभवम् । हारादिवदलंकारास्तत्र स्युरुपमादयः ।। श्लेषादयो गुणास्तत्र शौर्यादय इव स्थिताः। आत्मोत्कर्षावहास्तत्र स्वभावा इव रीतयः ॥ शोभामाधुर्यकं प्राप्ता वृत्तयो वृत्तयो यथा । पदानुगुण्यविश्रान्तिः शय्या शय्येव संमता ॥ रसास्वादप्रभेदाः स्युः पाकाः पाका इव स्थिताः । प्रख्याता लोकवदियं
सामग्री काव्यसंपदः ॥ इति (प्रतापरु० पृ० १२ )। कासराक्षः-महिषाख्यो गुग्गुलः (पु० चि० पृ० ३०४ )। किंच-(अव्ययसमुदायः) १ आरम्भः । २ समुच्चयः । ३ साकल्यम् ।
४ संभावना । ५ अवान्तरम् ( वाच० )। किंचन-(अव्ययसमुदायः ) १ असाकल्यम् । २ अल्पम् (वाच० )। किंचित् -(अव्ययसमुदायः ) १ असाकल्यम् । २ अल्पम् । यथा कम्पेन
किंचित् प्रतिगृह्य मूनः (रघु०) आवर्जिता किंचिदिव स्तनाभ्याम्
(कुमार० ) इत्यादौ ( वाच० )। किंतु—(अव्ययसमुदायः ) १ पूर्ववाक्यसंकोचज्ञापनम् । २ प्रागुक्त. विरुद्धार्थः । ३ किंपुनरर्थः ( वाच० )। किंनु-(अव्ययसमुदायः ) १ प्रश्नः । २ वितर्कः । ३ सादृश्यम् ।
४ स्थानम् ( वाच०)। किम्- [क] जिज्ञासितम् (ग० शक्ति० पृ० १०४ ) (दि. ४
पृ० १७९ ) ( म०प्र० ३।३४ )। यथा किं तव नामधेयमित्यादौ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org