________________
न्यायकोशः। वयं विधेयः इत्याकूतम् । गौडाश्च समासप्रत्ययविधौ प्रतिषेधो वक्तव्यः ( पा० सू० १।१।७२ वार्ति० ) इत्युक्ते तदन्तविधिपरिभाषाया अप्रवृत्तेः कालान्तशब्दान्नास्य प्रवृत्तिः । तेन तदन्तशब्दात् ख एव साधुः । समानकालीनः प्राक्कालीन इति भूरिप्रयोगात् इत्याहुः । वस्तुतस्तु तद्धिताः ( ४।१।७६) इति पाणिनिसूत्रस्थबहुवचनेनानुक्तस्थलेपि तद्धितप्रत्ययो बोध्यते । स चात्र खप्रत्ययः इति विज्ञेयम् । वैयाकरणमते तु भाष्यानुक्तत्वादप्रमाणमेतत् । अत एव अपभ्रंशा एवैते इति प्रामाणिका
इति सिद्धान्तकौमुद्यामुक्तम् ( कौ० ४।३।११ )। कालोपाधिः-श्रणदिनादिव्यवहारविषयत्वनियामको धर्मः । स च जन्य
मात्रं (अनित्यमात्रं) क्रियामात्रं वा कालोपाधिः । तथाहि स्वजन्यविभागप्रागभावावच्छिन्नं कर्म (१) पूर्वसंयोगावच्छिन्नविभागः (२) पूर्वसंयोगनाशावच्छिन्नोत्तरसंयोगप्रागभावः (३) उत्तरसंयोगावच्छिन्नं कर्म (४) च इत्यादि (मु०१ पृ० ९२)। स्वजनेत्यस्यार्थश्च स्वम् रविक्रिया । तज्जन्यो विभागः रविपूर्वदेशयोविभागः । तस्य प्रागभावः । स तादृशक्रियोत्पत्तिकाले तिष्ठति । तदवच्छिन्नम् तदेव कर्म इति (सि० च० १ पृ० १०)। पूर्वसंयोगेत्यादेः स्वजन्यविभागनाश्यपूर्वसंयोगविशिष्टः स्वजन्यविभाग इत्यर्थः । पूर्वसंयोगनाशेत्यादेः स्वजन्यविभागजन्यपूर्वसंयोगनाशावच्छिन्नः स्वजन्योत्तरसंयोगप्रागभाव इत्यर्थः । उत्तरसंयोगेत्यादेः स्वनाशकोत्तरसंयोग इत्यर्थः ( दि० १ पृ० ९२ )। अनेनोपाधिचतुष्टयेन क्षणचतुष्टयव्यवहार उपपद्यते । एवम् क्षणान्तरव्यवहारनियामकं कर्मान्तरादि उह्यम् । महाप्रलये क्षणादिव्यवहारो यद्यस्ति तदा सोनायत्या ध्वंसेनैव उपपादनीयः इति (मु० १ पृ० ९३)। स्ववृत्तिध्वंसप्रतियोगिप्रतियोगिकयावर्द्धसविशिष्टसमयस्यैव तत्र क्षणव्यवहारविषयत्वमिति भावः (दि. १ पृ० ९३ )। अत्र प्रथमक्षणे क्रियोत्पद्यते । अनन्तरं क्रियातो विभागः । ततः पूर्वसंयोगनाशः । ततः उत्तरदेशसंयोग उत्पद्यते । इति एकवारं नेत्रनिमीलने नैयायिकप्रक्रिया ज्ञेया। एत एव क्रियादयश्चत्वारः क्रमेण चत्वार उपाधयो बोध्याः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org