________________
T: 1
I
न्यायकोशः निमित्तकारणं चेति (सि० च० पृ० १० ) । किं च इदानीं घटः इति प्रतीतेः संभवेन सूर्य क्रियाया घटादेश्व संबन्धोवश्यं स्वीकर्तव्यः । स च स्व- (क्रिया) - समवायि-(तपन - ) - संयोगिसंयोग एव भवति । तद्घटकतया कालः सिध्यति इति ( दि० १ पृ० ९१ ) ( प० मा० ) । सांख्यास्तु काल आकाशेन्तर्भवतीति कालमतिरिक्तं न स्वीकुर्वन्ति ( सां० कौ० ) । दिक्कालौ नेश्वरादतिरिच्येते इतीश्वरात्मक एव कालः इति दीधितिकृद्रधुनाथतार्किक शिरोमणिरघुदेवरामभद्रादय आहुः । एतन्मते काल ईश्वरान्नातिरिक्तः । किंतु क्षणा एवेश्वरादतिरिक्ता इदानीम् इत्यादिव्यवहारविषयाश्चेति ज्ञेयम् ( वाच० ) । स च कालः एकः विभुः नित्यश्च (वै० २।२।६-९ ) ( ७११।२५ ) ( त० सं० ) । काले पञ्च गुणा वर्तन्ते । एकत्वसंख्या परममहत्परिमाणम् पृथक्त्वम् संयोगः विभाग ( भा० प० श्लो० ३३ ) ( त० भा० पृ० ३१ ) | अत्रेदमवधेयम् । कालस्त्वेकोपि उपाधिभेदात् अतीतानागतक्षणदिनवर्षादिव्यवहारविषयः ( मु० १ पृ० ९१ ) । काल एकोपि उपाधिभेदात्रिविधः । अतीतः अनागतः वर्तमानश्चेति (त० कौ० १ पृ० ३ ) । तत्र भूतभविष्यत्कालाप्रत्येक मद्यतनानद्यतनभेदेन द्विविधौ इत्यादि ग्रन्थान्तरे द्रष्टव्यम् । कालोपाधिस्तु कालोपाधिशब्द व्याख्यानावसरे संग्रहीष्यते । कलनात्सर्वभूतानां स कालः परिकीर्तितः ( वि० ध० पु० चि० पृ० १ ) | काल: सर्वकार्याणां चोत्पत्तिस्थितिविनाशहेतुः । तद्व्यपदेशात् । क्षणलवनिमेषI काष्ठाकला मुहूर्तयामअहोरात्र अर्धमासमासऋतुअयन संवत्सरयुग कल्पमन्वन्तरप्रलय महाप्रलय व्यवहारहेतुश्च । काललिङ्गाविशेषादेकत्वं सिद्धम् । कारणे कालः (वै० ७|१|२५ ) । इति वचनात्परममहत्परिमाणम् । कारणपरत्वात् ( ७।२।२२ ) इति वचनात्संयोगः । तद्विनाशाद्विभागः ( प्रशस्त० पृ० ७ - ८ ) । सोयं क्षणलवादिः कालः कालिकवृत्तेरव्याप्यवृत्तिताया नियामक: जन्यमात्रे साधारणनिमित्तकारणं च । तत्र प्रमाणम् । पौरुषं दैवसंपत्त्या काले फलति पार्थिव । यत्र एतन्मनुष्यस्य पिण्डितं स्यात्कलावहम् ॥ इति । कृषेर्वृष्टिसमायोगे दृश्यन्ते फलसिद्धयः ।
·
।
२३२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org