________________
२३३
न्यायकोशः। तास्तु काले प्रदृश्यन्ते नैवाकाले कथंचन ॥ इति च द्रष्टव्यम् (वाच०)। कालोतीन्द्रिय इति नैयायिकसिद्धान्तः । तथा च दिग्विपरीतपरत्वापरत्वानुमेयः कालः इति ( त० भा० पृ० ३१) । प्राभाकराश्च कालः षडिन्द्रियवेद्य इति अमन्यन्त ( म० प्र० पृ० ६५) । मायावादिनस्तु कालः साक्षिप्रत्ययभास्य इति अङ्गीचक्रुः । २ विवेकसाक्षात्कारान्तरायो मेघाख्यस्तुष्टिविशेषः काल इति सांख्या आहुः ( वाच० )। कालातीतः-१ ( बाधितहेत्वाभासः ) [क] कालात्ययापदिष्टः कालातीतः ( गौ० १।२।९)। [ख] कालातीतो बलवता प्रमाणेन प्रबाधितः ( ता० र० श्लो० ८६ )। २ कालातिक्रमः । यथा कालातीते वृथा संध्या वन्ध्यास्त्रीमैथुनं यथा इत्यादी। अत्रार्थे कालातीत
शब्दस्य कालस्यातीतमत्ययः इति व्युत्पत्तिद्रष्टव्या ( वाच०)। कालात्ययापदिष्टः-( हेत्वाभासः ) [क] कालस्य साधनकालस्यात्यये
अभावपदिष्टः प्रयुक्तो हेतुः। एतेन साध्याभावप्रमा लक्षणार्थ इति सूचितम् । साध्याभावनिर्णये साधनासंभवात् । अयमेव बाधितसाध्यक इति गीयते। यथा वह्निरनुष्णः । कृतकत्वादित्यादौ (गौ०३० १।२।९)। कालात्ययापदिष्टः कालातीतः ( गौ० १।२।९ ) । कालात्ययेन प्रयुक्तो यस्यार्थस्यैकदेशोपदिश्यमानस्य स कालात्ययापदिष्टः कालातीत इत्युच्यते। निदर्शनम् नित्यः शब्दः संयोगव्यङ्गयत्वाद्रूपवत् ( वात्स्या० १।२।९)। [ख] यस्य बलवत्प्रत्यक्षादिप्रमाणेन पक्षे साध्याभावः परिच्छिन्नः सः । स एव बाधितविषय इत्युच्यते । यथा अग्निरनुष्णः पदार्थत्वात् कृतकत्वाद्वा जलवदिति । यथा वा घटः क्षणिकः सत्त्वादित्यादौ सत्त्वं हेतुः कालात्ययापदिष्टः । अग्निरनुष्ण इत्यत्र कृतकत्वं हेतुः । तस्य च यत् साध्यम् अनुष्णत्वम् तस्याभावः प्रत्यक्षेणैव परिच्छिन्नः ( परिज्ञातः)। त्वगिन्द्रियेणानेरुष्णत्वपरिच्छेदात् (त० भा० पृ० ५०) । घटः क्षणिक इत्यत्र हेतोः सत्त्वस्य यत् साध्यम् क्षणिकत्वम् तस्याभावः अक्षणिकत्वम् प्रत्यभिज्ञया पूर्वावस्थानुभवजनितसंस्कारसहकृतेन्द्रियप्रभवया पूर्वापरकालाकलनया घटस्य स्थायित्वं परिच्छिद्यत इति तस्य हेतो३. न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org