________________
न्यायकोशः ।
२३१ स्मकत्वेन तस्याकाशे समवायसंबन्धेन सत्त्वेपि नाकाशेतिव्याप्तिः (सि० च० ११० १० ) । [घ] सूर्यक्रियोपाधिवशादतीतानागतवर्तमानादिव्यवहारभाकू कालः ( प्र० प्र० ) । [ङ ] शाब्दिकास्तु शब्द तन्मात्रपरिणामः कालः इत्याहुः ( ल० म० लका० प० २० ) । [च] येन मूर्तीनामुपचयाश्चापचयाश्च लक्ष्यन्ते तं कालमित्याहुः । तस्यैव कयाचित्क्रियया युक्तस्याहरिति रात्रिरिति च भवति । कया क्रियया आदित्यगत्या । तयैवासकृदावृत्तया मास इति संवत्सर इति च भवति इति ( पात ० म० भा० २/२/५ ) । काललक्षणं तु कालिक संबन्धावच्छिन्नकार्यत्वावच्छिन्नकार्यतानिरूपितमधिकरणविधया निमित्तत्वम्
1
1
( दि० १/२ पृ० ८९ ) । कालिकसंबन्धावच्छिन्नाधिकरणत्वमेव कालत्वम् इति निष्कृष्टार्थः ( राम० १ काल० पृ० ८९ ) । अथवा विभुत्वे सति कालिकपरत्वापरत्वा समवायिकारणसंयोगाश्रयत्वाद्युपाधिरूपं कालत्वम् (प० मा० ) । यद्वा अतीतादिव्यवहारजनकतावच्छेदक मुख्यविशेष्यत्वम् ( वाक्य ० १ पृ० ५ ) | कालसत्त्वे प्रमाणं चानुमानम् । तच्च परत्वापरत्वे सासमवायिकारणके भावकार्यत्वाद्घटवत् इति । अयं भावः । ज्येष्ठे परत्वप्रत्ययः कनिष्ठे अपरत्वप्रत्ययः । स च परत्वापरत्वगुणविशेषाधीनः । परत्वापरत्वे च सासमवायिकारण भावकार्यत्वात् । असमवायिकारणं च तयोः कालपिण्डसंयोग एव । तदाश्रयः काल इति ( दि० १ पृ० ९१ ) । तथा च ज्येष्ठत्वकनिष्ठत्वज्ञानाधीनपरत्वापरत्वानुमेयः कालः सिद्धः ( त० कौ० पृ० ३ ) । अत्र सूत्रम् अपरस्मिन्नपरं युगपचिरं क्षिप्रमिति काललिङ्गानि (वै० २।२।६ ) इति । अयमर्थः । इतिशब्दः प्रकारार्थः प्रत्येकमभिसंबध्यते । अपरं चिरमित्यादयः प्रत्ययाः काललिङ्गानीति । बहुतर दिवाकरक्रिया विशिष्टशरीरज्ञानात् कालिकपरत्वोत्पत्तिरिति सिद्धान्तः । तज्ज्ञानं विशेषणविशेष्योभयसंबन्धघटकसापेक्षं साक्षात्संबन्धाभावे सति विशिष्टज्ञानत्वात् लोहितः स्फटिकः इति ज्ञानवत् इत्यनुमानेन तादृशसंबन्धघटकविधया कालः सिध्यति । तादृशसंबन्धश्च स्वसमवायिसंयुक्तसंयोगः । स च कालः जगदाधारः कार्यमात्रे
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org