________________
न्यायकोशः ।
प्राभाकरमते शक्तिग्रहप्रकारस्त्वित्थम् । प्रयोजकवृद्धेन घटमानय इत्युक्तम् । तच्छ्रुत्वा प्रयोज्यवृद्धेन घट आनीतः । तदवधार्य पार्श्वस्थो बालः घटानयनरूपं कार्यं घटमानयेति शब्दप्रयोज्यम् इत्यवधारयति । ततश्च घटं नय गामानय इत्यावापोद्वापाभ्यां घटादिपदानां कार्यान्वितघटादौ शक्ति गृह्णाति इति (मुक्ता० ४ पृ० १७६ ) ( चि० ४ ) । अत्र नैयाविकास्तु चैत्र पुत्रस्ते जातः कन्या ते गर्भिणी इत्यादौ सिद्धार्थविषयकस्यापि शाब्दबोधस्योत्पत्तेर्न कार्यान्विते शक्तिः । अत एव यन्न दुःखेन संभिन्नं न च प्रस्तमनन्तरम् । अभिलाषोपपन्नं च तत् सुखं स्वःपदास्पदम् ॥ इत्यर्थवादोपस्थिते सुखे वेदादेव स्वर्गपदस्य शक्तिग्रहः इति ( चि० ४ ) | अन्वयस्य वाक्यार्थतया भानसंभवादन्वयांशेपि शक्तिर्न कल्पनीया इति प्राहुः ( त० दी० ४ पृ० ३२ ) । अत्रायं निष्कर्षः । पदार्थ संसर्गस्य पदसमभिव्याहारबलादेव शाब्दबोधे भानसंभवात् तादृशसंसर्गांशेपि शक्तिर्न कल्पनीया इति ( नील० ४ पृ० ३२ ) ।
२३०
कार्यैक्यम् –( संगतिः) एककार्यानुकूलत्वम् (राम० २ पृ० १३४ ) । यथा अनुमितिलक्षणैककार्यानुकूलत्वसंगत्या पक्षधर्मतां निरूपयितुमाह ( दीधि० २ पृ० १२३ ) इत्यादौ व्याप्तिपक्षधर्मतयोरनुमितिलक्षणकार्यैक्यं संगतिः । इदं च एककार्यत्वमित्यप्युच्यते ।
काल:- १ (द्रव्यम्) [क] विभुत्वे सति दिगसमवेत परत्वासमवायिकारणाधिकरणम् (सर्व० सं० पृ० २१९ औलू० ) । तदर्थश्च दिश्यसमवेतं यत् परत्वस्यासमवायिकारणम् कालपिण्डसंयोगः तस्याधिकरणम् इति । दिशि अतिव्याप्तिवारणाय दिगसमवेतेति । [ख] परापरव्यतिकरयौगपद्यायौगपद्यचिरक्षिप्रप्रत्ययकारणं द्रव्यम् (बै० उ० ७।१।२५ ) ( भा० प० श्लो० ४७ ) । [ग] अतीतादिव्यवहारहेतुः ( त० सं० ) । तदर्थश्च अतीतः भविष्यद् वर्तमानः इति प्रतीतिप्रयोजकः व्यवहारस्तस्यासाधारणनिमित्तहेतुः । तेन व्यवहारस्य शब्दा
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org