________________
न्यायकोशः ।
मात्मलाभः तत् खल्त्रभूत्वा भवति । यथा घटादिकार्यमनित्यमिति च भूत्वा न भवतीत्येतद्विज्ञायते । एवमवस्थिते प्रयत्नकार्यानेकत्वादिति प्रतिषेध उच्यते । प्रयत्नानन्तरमात्मलाभश्च दृष्टो घटादीनाम् व्यवधानापोहाच्चाभिव्यक्तिर्व्यवहितानाम् । तत्किं प्रयत्नानन्तरमात्मलाभः शब्दस्याहो अभिव्यक्तिरिति विशेषो नास्ति । कार्याविशेषेण प्रत्यवस्थानं कार्यसमः ( वात्स्या० ५।१।३७ ) । [ख] सामान्यत उक्त हेतोरनभिमतविशेषनिराकरणेन प्रत्यवस्थानम् । यथा शब्दः अनित्यः प्रयत्नानन्तरीयकत्वादित्युक्ते प्रयत्नानन्तरीयकत्वं प्रयत्नकार्ये घटादौ तथा व्यवधानापोहेन प्रयत्नानन्तरोपलभ्यमाने कीलकादावपि दृष्टम् । तत्र द्वितीयं न जन्यत्वसाधकम्। आद्ये त्वसिद्धम् ( गौ० वृ० ५ १ । ३७ ) । [ग] वाद्युक्तहेतोरन्यकार्येणापि संभवाभिधानम् । यथा शब्दः अनित्यः प्रयत्नानुविधायित्वादित्यत्र प्रयत्नानुविधायित्वमुभयथापि संभवति । घटादिवच्छब्दस्वरूपोत्पत्तौ जलादिवदावरकनिवृत्तौ च । उभयत्रापि प्रयत्नानुविधायित्वदर्शनात् । तथा च तस्यावरकनिवृत्तिरूपकार्यान्तरस्य संभवान्नानित्यत्वनियतत्वमिति ( नील० पृ० ४५ ) । [घ] असिद्धतां वादिहेतोरुक्त्वा तं साधयेत्स्वयम् । तदूषणान्मूलहेतुभङ्गः कार्यसमो मतः ॥ इति ( ता० र० परि० २ श्लो० १२७ ) । असिद्धदेशनाभासोयम् । अस्याकृतिगणत्वात्सूत्रानुपदर्शितानामपि परिग्रहः । यथा शाठीसमा अनुपकारसमेत्यादि ( गौ० वृ० ५।१।३७ ) । कार्यान्वितत्वम् ——— कार्यताबोधकपदप्रतिपाद्यार्थात्मककार्ययुक्तत्वम् । यथा प्राभाकरमीमांसकनये घटमानयेत्यादौ घटादिपदानामानयनादिरूपक्रियाविशिष्ट एव घटादौ शक्तिः इत्यत्र क्रियान्वितत्वम् । अन्विते शक्तिरिति तेषां मतम् । अयमभिप्रायः । कथंचिदुपस्थितपदार्थानां शाब्दबोधवारणाय तत्तद्विषय कशाब्दबोधं प्रति वृत्तिज्ञानजन्यतदुपस्थितित्वेन हेतुतायाः कल्पनीयतया अन्वयांशेपि शक्तिरपेक्षिता । अन्यथा तादृशसामान्यकार्यकारणभावभङ्गापत्तेः । एवं च अन्वितो घटपदवाच्यः इत्याकारकशक्तिज्ञानमेव शाब्दबोधप्रयोजकम् इति (नील० ४ पृ० ३२ ) ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org