________________
. २२८
न्यायकोशः। कार्यम्-१ [क] प्रागभावप्रतियोगि ( त० सं०)। यथा घटपटादि
सर्वम् प्रागभावभिन्नम् अनित्यजातं कार्य भवति । अत्रायमाशयः। घटोत्पत्तेः पूर्व इह घटो भविष्यति इति या प्रतीतिर्जायते तत्प्रतीतिविषयीभूतो यः अभावः स एव घटप्रागभावः तत्प्रतियोगि घटादिरूपं कार्यम् इति ( न्या० बो० १ पृ० ८)। [ख] कारणपश्चाद्भावि। तच्च द्यणुकत्र्यणुकादिभेदेनानन्तविधं भवति (त० कौ० १ पृ० ३)। कार्यद्रव्यस्योत्पत्तिविनाशयोः क्रमस्तु सृष्टिशब्दप्रलयशब्दव्याख्यानावसरे संपादयिष्यते । अत्र कार्योत्पत्तिप्रकारो मतभेदेन प्रसरति । असतः सज्जायत इति सौगताः संगिरन्ते । सतोसज्जायत इति नैयायिकादयः । सतो विवर्त ( अधिष्ठानज्ञानेन निवर्त्यम् ) कार्यजातम् न वस्तुसदिति मायावादिनो वेदान्तिनः । सतः सज्जायत इति सांख्याः ( सर्व० सं० पृ. ३२१ सांख्य० ) । तस्यायमाशयः । अत्र कल्पचतुष्टयं भवति । असतः सत् असतोसत् सतः सत् सतोसत् इति । तत्र द्वितीयकल्पो नैव संभवति । तृतीयकल्पे पक्षद्वयं संभवति । सतः सकाशाद्व्यावहारिकं सत् सतः सकाशापारमार्थिकं सदिति । तत्राद्यः पक्षो मायावादिनां वेदान्तिनाम् । अन्त्यस्तु सांख्यानाम् । तत्र असतः सदिति वादिनां सौगतानामयमाशयः । असतः कारणात्सत्कार्य जायत इति । सौगता बौद्धाः । उत्पत्तेः पूर्वमविद्यमानं कार्य सतः कारणाजायत इति नैयायिकानामाशयः । मायावादिनां वेदान्तिनां सांख्यानां चाभिप्राय उक्त एव । विस्तरस्तु सर्वदर्शनसंग्रहटीकायां (पृ० ३२१ ) द्रष्टव्यः । २ यागादिकृतिसाध्यमपूर्व कार्यमिति प्राभाकराः। ३ आदिश्यमानो वर्णादिः कार्यमिति शाब्दिकाः । ४ आरोग्यं कार्यमिति भिषजः। ५ जन्मलग्रावधि दशमस्थानं कार्यमिति ज्योतिषज्ञाः। ४ उद्देश्यं कार्यमिति
व्यवहारज्ञाः । ७ प्रयोजनमिति काव्यज्ञा वदन्ति ( वाच० )। कार्यसमः—(जातिः) [क] प्रयत्नकार्यानेकत्वात्कार्यसमः (गौ०५।१।
३७)। प्रयत्नानन्तरीयकत्वादनित्यः शब्द इति । यस्य प्रयत्नानन्तर३ अत्र कचित् कारणसमेति पाठः । तस्याप्ययमेवार्थः (नील• पृ० ४५)। .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org