________________
न्यायकोशः।
२२७ २ उद्देश्यम् । यथा तस्यागमनकारणम् इत्यादी कारणमुद्देश्यम् । प्रयोजनं फलं वेत्यर्थः । फलस्य कारणत्वं चेच्छाद्वारा । उपायेच्छां प्रति फलेच्छायाः कारणत्वात् । सर्वो हि लोकः फलमिच्छन्नेव तदुपाये प्रवर्तमानो दृश्यते इति तस्य तथात्वं बोध्यम् ( वाच० ) । ३ समस्तसृष्टिसंहारानुग्रहकारि कारणम् ( सर्व० सं० पृ० १६८ नकुली० )। कारुण्यम्-१ स्वार्थमनपेक्ष्य परदुःखप्रहाणेच्छा । यथा परमेश्वरस्य जगन्निर्माणे करुणया प्रवृत्तिः ( सर्व० सं० पृ० २२५ अक्ष० )। २ करुणाविषयत्वम् । यथा दयासमुद्रे स तदाशयेतिथीचकार कारुण्यरसापगा गिरः (नैष० ) इत्यादौ (वाच०)। कार्पण्यम्- (दोषः) उचितव्ययाकरणेनापि धनरक्षणेच्छा (गौ० वृ०
४।१।३ ) । यथा कृपणो धनाढ्य इत्यादौ । कार्पण्यमपि तृष्णाप्रभेद
एव ( गौ० वृ० ४।१।३ )। कार्मिकम्-कर्मणा चित्रेण निर्मितम् । यत्र निष्पन्ने पटे चक्रस्वस्तिकादिकं
चित्रं सूत्रः क्रियते तत्कार्मिकमित्युच्यते ( मिताक्षरा २।१८० )। कार्यकारणभावः–यत्किचिनिष्ठकार्यतानिरूपितकारणत्व यत्किचिन्निष्ठका
रणतानिरूपितकार्यत्व एतदन्यतरात्मको धर्मः । यथा कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमो दर्शनान्न न दर्शनात् । इत्यादौ धूमधूमध्वजयोः कार्यकारणभावः ( सर्व० सं० पृ० १६ बौद्ध० )। अत्र व्युत्पत्तिः कार्यं च कारणं च तयोर्भावः इति द्रष्टव्या। अयं च हेतुहेतुमद्भाव इत्यप्युच्यते । एकस्य स्वकारणापेक्षया कार्यत्वे तदपेक्षया चान्यस्य कारणत्वम् इति ( वाच०) । अत्रेदं बोध्यम् । कार्योत्पत्तिनिश्चयेनाविनाभावो निश्चीयते। तदुत्पत्तिनिश्चयश्च कार्यहेत्वोः प्रत्यक्षोपलम्भानुपलम्भपञ्चकनिबन्धनः । तथाहि कार्यस्योत्पत्तेः प्रागनुपलम्भः कारणोपलम्भे सत्युपलम्भः उपलब्धस्य पश्चात् कारणानुपलम्भादनुपलम्भः इति पञ्चकारण्या धूमधूमध्वजयोः कार्यकारणभावो निश्चीयते ( सर्व० सं० पृ० १७ बौद्ध० ) इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org