________________
२२६
न्यायकोशः।
रासभसामान्ययोरपि कार्यकारणभावापत्तिः । तद्वारणाय असति बाधके इत्युक्तम् । तथा च तत्रान्यथासिद्धत्वरूपबाधकसत्त्वेन न तयोः कार्यकारणभावः इति । कारणं तावत् द्विविधम्। मुख्यम् अमुख्यं च । तत्र घटादिकं प्रति मृदादिकं कपालादिकं वा मुख्यम् । यथा वा अभावप्रत्यक्षे इन्द्रियम् अनुमितौ च परामर्शः इत्यादि मुख्य कारणं भवति । मुख्यभिन्नं त्वमुख्य कारणम् । तच्च सहकारिकारणमुच्यते । यथा अभावप्रत्यक्षे योग्यानुपलब्धिः अनुमितौ च सहचारज्ञानं कारणम् अमुख्यं भवति । मुख्यमपि न्यायमते त्रिविधम् । समवायि असमवायि निमित्तं चेति । तत्र घटादिकं प्रति कपालादिकं समवायिकारणम् । कपालद्वयसंयोगादि असमवायिकारणम् । दण्डादयो निमित्तकारणानि इति । अत्रेदं बोध्यम् । एतत् त्रिविधं कारणम् भावकार्याणामेवास्ति । न स्वभावस्य । ध्वंसस्य तु निमित्तकारणमात्रम् । ध्वंसस्य समवायाभावेन समवाय्यसमवायिनोरभावात् इति (प्र० प्र० १ पृ० २)। इदं च कारणत्रयम् भावकार्यस्यैव । अभावस्य तु निमित्तमात्रम् इति तर्कदीपिकायामप्युक्तम् । अत्रायं नियमः । समवायिकारणं द्रव्यमेव भवति । असमवायिकारणं तु गुणः कर्म च भवति । असमवायिकारणं गुणकर्मातिरिक्तं न भवतीत्यर्थः (वै० १०।२।१-६ ) (मु० १ पृ० ५६)। इदं च बोध्यम् । समवायिकारणासमवायिकारणे असाधारणे एव कारणे भवतः । निमित्तकारणं तु साधारणासाधारणभेदेन द्विविधमप्यस्ति । तत्र साधारणनिमित्तकारणानि चाष्टविधानि । ईश्वरः तज्ज्ञानेच्छाकृतयः दिक्कालौ अदृष्टम् (धर्माधर्मों ) प्रागभावश्चेति । प्रतिबन्धकसंसर्गाभावस्तु कार्यमानं प्रति साधारणं निमित्तकारणमेव । स च प्राचीननैयायिकानां मते प्रागभावप्रध्वंसअत्यन्ताभावएतत्रयम् । मणिकारादीनां नव्यनैयायिकानां मते तु अत्यन्ताभाव एव इति विवेकः (दि. १ मङ्ग. पृ० ११) । मायावादिवेदान्तिनस्तु अभावस्य कारणत्वं नेच्छन्ति । असाधारणनिमित्तकारणानि तु कार्यभेदेनानेकविधानि । अमुख्यं कारणं तु असाधारणं निमित्तमेव अनेकधा चेति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org