________________
२२५
. न्यायकोशः। भा० पृ० २ ) ( त० सं० )। यथा वा नवीनानां मणिकारादीनां मते प्रतिबन्धकसंसर्गाभावोपि कार्यमानं प्रति कारणम् । स च प्रतिबन्धकात्यन्ताभावः। अनन्यथासिद्धेत्यस्यार्थश्च अन्यथासिद्धभिन्नं अन्यथासिद्धिशून्यम् यत् कार्यनियतपूर्ववृत्ति तदिति। अत्र व्यापारेण व्यापारिणो नान्यथासिद्धिः इति नियमोङ्गीकर्तव्यः । तेन कुठारेण वृक्षं छिनत्तीत्यादौ कुठारादीनां परंपरया छेदनक्रियाजनककुठारदारुसंयोगजनकविधया कारणत्वेपि नान्यथासिद्धिः इति । कार्यनियतेत्यस्यार्थश्च कार्यान्नियता अवश्यंभाविनी पूर्ववृत्तिः पूर्वक्षणवृत्तिः यस्य तत्तथा इति (सि० च० १ पृ० ५०)। अत्र घटं प्रति रासभादेः कारणत्वनिरासाय नियतपदम् । यद्यपि अनियतरासभादेस्तृतीयान्यथासिद्धत्वेन (तर्कदीपिकाद्युक्ततृतीयान्यथासिद्धलक्षणाक्रान्तत्वेन ) कारणलक्षणघटकेनैव अनन्यथासिद्धति विशेषणेन रासभादेः कारणत्वनिरासान्नियतपदं व्यर्थमेव तथापि घटसामान्य प्रति रासभसामान्यस्य कारणत्वनिरासाय नियतपदमावश्यकम् । यदि नियतपदं लक्षणे न निवेश्यते तदा तत्र पूर्वोक्ततृतीयान्यथासिद्धरसंभवेनातिव्याप्तिः स्यात् इति । नियतपूर्ववृत्तित्वं चाव्यवहितपूर्वकालावच्छेदेन कार्यदेशे सत्त्वम् । न चेदं रासभसामान्येस्ति अतो नातिव्याप्तिः (त० कौ० १ पृ० ८ ) (नील० १ पृ० १६)। अत्र प्राभाकारास्तु कारणमात्रं कार्यसहभावनिरूपकमेव सत् कार्यकारि इति प्रतिबन्धकाभावोपि कार्यसहभावेन कारणम् इति च वदन्ति । कार्यसहभावनिरूपकत्वं चात्र कार्योत्पत्तिक्षणावच्छिन्ना याधिकरणता तन्निरूपकत्वम् । स्वोत्पत्ति स्वाव्यवहितपूर्वत्व एतदन्यतरसंबन्धेन यदा कार्य तदा प्रतिबन्धकाभावादिः इति प्रत्यासत्त्या कारणम् इति ( मू० म० १)। यथा दाहोत्पत्तिकाले मण्याद्यभावः। [घ] कार्योत्पादकम् । अत्रेयं व्याप्तिरनुसंधेया यद्विशेषयोः कार्यकारणभावः असति बाधके तत्सामान्ययोरपि इति । यथा घटविशेषदण्डविशेषयोः कार्यकारणभावे घटसामान्यदण्डसामान्ययोरपि कार्यकारणभावो निराबाध एव इति । अत्र घटविशेष प्रति देवादागतरासभस्य कारणत्वे घटसामान्य२९ न्या० को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org