________________
२२४
न्यायकोशः। विवक्षणीयम् । तेन अवयवावयविनोरेकत्वयोः संख्यात्वेनापि साजात्यमभ्युपगम्य तादृशैकत्वाभ्यां जनितेवयवावयविद्वित्वादौ नातिव्याप्तिः (दि० गु० पृ० १९४ )। कारणगुणोत्पन्नगुणाश्च अपाकजा रूपरसगन्धानुष्णस्पर्शाः अपाकजं द्रवत्वम् स्नेहवेगगुरुत्वएकत्वानि एकपृथक्त्वम् परिमाणम् स्थितिस्थापकश्चेति ( भा० ५० गु० श्लो० ९६-९७ )। अत्र पृथिवीमात्रवृत्तीनां केषांचित् पाकजरूपरसगन्धस्पर्शानाम् कारणगुणपूर्वकत्वाभावात् अपाकजाः इत्युक्तम् (मु० गु० पृ० १९४ )। वेगोत्र कर्माजन्यो वेगजन्यः ग्राह्यः (प० मा० )। करणगुणोत्पन्नत्वं च [क] स्वाश्रयसमवायिसमवेतगुणजन्यत्वम् ( दि० गु० पृ० १९४ )। अत्र स्वम् अवयविजलस्य रूपादि । तस्याश्रयः समवायि वा समवायेन संबन्धेनाश्रयः अवयविभूतं जलम्। तस्य समवायि अवयवभूतं जलम् । तत्र समवेतो गुणः अवयवभूतजलवृत्ती रूपांदिः । तेन जन्यः तस्य भाव इति विग्रहादिकं ज्ञेयम् । [ख] स्वसमवायिसमवायिसमवेतगुणजन्यत्वम (ल० व० पृ० ३६) । यथा कार्यजलसमवेतरूपस्य कारणगुणोत्पन्नत्वमेव । अत्र तादृशगुणजन्यत्वं च तादृशगुणनिष्ठा
समवायिकारणतानिरूपितकार्यताशालित्वम् (ल० व० पृ० ३६ )। कारणम्-१ [क] कारणं हि तद्भवति यस्मिन् सति यद्भवति यस्मिश्वासति यन्न भवति ( न्या० वा० १ पृ० २४ )। अत्रेदं बोध्यम् । कारणत्वं द्विविधम् । वैदिकम् लौकिकं च । तत्र वैदिकम् अन्वयमात्रावगम्यम् । लौकिकं तु अन्वयव्यतिरेकोभयगम्यम् इति (त० व० परि० २ श्लो० ५० पृ० ४०)। पुनरपि न्यायमते कारणत्वं द्विविधम् । फलोपहितत्वं स्वरूपयोग्यत्वं चेति । तत्राद्यं यथा अनुमिति प्रति परामर्शस्य कारणत्वम् । फलोपहितत्यं च उपधायकत्वशब्देनापि व्यवह्रियते। द्वितीयं यथा अरण्यस्थदण्डादिसाधारणम् जनकतावच्छेदकलक्षणं दण्डत्वादिस्वरूपं घटकारणत्वम् । [ख] यस्य कार्यात्पूर्वभावो नियतोनन्यथासिद्धश्च तत् ( त० भा० पृ० २ )। [ग] अनन्यथासिद्धकार्यनियतपूर्ववृत्ति । यथा तन्तुवेमादिकं पदस्य कारणम् ( तक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org