________________
न्यायकोशः।
२२३ सुब् भवेत् ॥ तथा हि । प्रथमादीनां सप्तानां विभक्तीनामेकत्वादयोर्था न धात्वर्थे प्रकारीभूय भासन्ते । किंतु प्रकृत्यर्थे । पाक इत्यादावपि सुबर्थसंस्था न धात्वर्थे प्रकारः । किंतु पचनादिस्वरूपे नामार्थे इति । अथवा [ग] समासनिविष्टस्य धातोरर्थे इति वक्तव्यम् । न हि प्रामगत इत्यादौ धात्वर्थे कर्मवादिरिवैकत्वादिरपि सुबर्थः प्रकारः । अत एव प्रासादात्प्रेक्षत इत्यादौ ल्यवर्थस्य धात्वर्थ प्रकारत्वेपि तदर्थकपञ्चम्यां नाव्याप्तिः ( श० प्र० श्लो० ९२ पृ० ११४ ) । अत्रेदमवधेयम् । कारकविभक्तिभिन्नविभक्त्यर्थस्य क्रियायामनन्वयः इति न नियमः । तथा हि मणिकारमते तस्माज्जानाति इत्यादौ ज्ञानादिरूपधात्वर्थे हेतुविभक्त्यर्थस्यान्वयो दृष्टः । तस्मात् स्थीयते इत्यादौ च सर्वमत एव धात्वर्थस्थित्यादौ हेतुविभक्त्यर्थस्यान्वयो दृष्टः । गुरुविप्रतपखिदुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषजैः इत्यादौ षष्ठयर्थसंबन्धस्यापि धात्वर्थेन्वयो दृष्टश्च इति न तादृशनियमोङ्गीकर्तव्यः ( ग० व्यु० का० २ ख० २ पृ० ५६ ) । अत्र रोगे इति पदमध्याहार्य तदर्थे षष्ठयर्थस्यान्वयः कार्यः इत्यपि केचिद्वदन्ति इति प्रागुक्तमेव । कारणगुणपूर्वकत्वम्-कारणगुणेन कार्य ये गुणा उत्पद्यन्ते ते कारण
गुणपूर्वका रूपादयो वक्ष्यन्ते (मु० गु० पृ० १९३ )। अग्निमशब्दे
दृश्यम् । कारणगुणोत्पन्नगुणत्वम्- स्वाश्रयसमवायिमात्रसमवेतस्वसजातीयगुणजन्यवृत्तिः पृथक्त्वसंख्यात्वातिरिक्ता भावनावृत्त्यन्या च या जातिः तादृशजातिमत्त्वे सत्यपाकजत्वम् ( दि० गु० पृ० १९४ ) । भवति हि घटादीनां रूपादिकं स्वाश्रयघटादिसमवायिकपालादिरूपादिमात्रासमवायिकारणकम् (५० मा०)। स्वम् घटादीनां रूपादिकम् । तस्याश्रयः घटादिः । तस्य समवायि कपालम् । तन्मात्रे तस्मिन्नेव समवेतः स्वसजातीयो गुणः कपालादिगतरूपादिः। तेन जन्यम् घटादिगतम
पाकजं रूपादि । तत्र वर्तमाना जातिः अपाकजरूपत्वादिः । तद्वत्त्वे सति . इत्यर्थः । स्वसजातीयगुणेत्यत्र साजात्यं च गुणत्वव्याप्यव्याप्यजात्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org