________________
न्यायकोशः ।
1
पच्यते इत्यादौ तिङां पाचकः पच्यमान इत्यादौ च कृता कर्तृत्वं कर्मत्वं च धात्वर्थविशेष्यत्वेनानुभाव्यते । तथा पचनं काष्ठम् दानीयो द्विजः भीमो गजः शयनं गृहमित्यादौ यथाक्रमं करणत्वादि धात्वर्थं विशेष्यत्वेनानुभाव्यते । व्युत्पत्तिवैचित्र्येण पदार्थैकदेशेपि पचति पच्यते इत्यादौ कर्तृत्वाद धात्वर्थस्य पाकादेरन्वयात् । विषवृक्षोपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् ( कुमारसं० २।५५ ) सेवितुं सांप्रतं विज्ञैर्गुरुः परुषवागपि इत्यादौ तु निपातेन क्वचित् कर्मत्व कारकस्योक्तत्वम् ( श० प्र० पृ० १०५ ) । अनुक्तं तु कारकं यथा रामेण हतो वालीत्यादौ रामनिष्ठ कर्तृत्वम् । ग्रामं गच्छतीत्यादौ ग्रामनिष्ठ कर्मत्वम् । शरैः शातितपत्र इत्यादौ शरनिष्ठम् काष्ठैः पचतीत्यादौ च काष्ठनिष्ठ करणत्वम् । विप्राय ददातीत्यादौ विप्रनिष्ठं संप्रदानत्वम् । एतादृशमनुक्तं कारकं भवति । [ ] कर्तत्वादिव्यपदेशकारिणी क्रिया कारकम् । यथा कारके (१।४।२३ ) इति पाणिनिसूत्रे भाष्यं यावद्भूयात्क्रियायामिति तावत्कारके इति । अधिकं तु ( श० प्र० पृ० ११४ ) तत्र द्रष्टव्यम् । कारकविभक्तिः - ( सुप् ) धात्वर्थे प्रकारीभूतार्थबोधिका विभक्तिः । यथा ग्रामं गच्छति घटं पश्यति वृक्षात्पतति इत्यादौ द्वितीयापञ्चम्यादिः कारकविभक्तिरुच्यते । अत्र गच्छतिपश्यत्याद्यर्थे गमनदर्शनादौ द्वितीयापस्थापितकर्मत्वादि प्रकारीभूय भासत इति द्वितीयादिः कारकविभक्तिर्भवति इति विज्ञेयम् ( श० प्र० पृ० ७७ ) । कारकविभक्तित्वं चक्रियाजनकत्वसमानाधिकरणकर्त्रा दिषङ्कान्यतमार्थत्वम् ( ल० श०
I
1
२२२
शे० पृ० १९३ ) ।
कारकार्था - वृत्त्या कारकस्य बोधिका सुब्विभक्तिः । यथा वृक्षात्पतति ग्रामं गच्छतीत्यादौ कारकार्थी पञ्चम्यादिविभक्तिः ( श० प्र० पृ० ७७ ) । कारकार्थान्यार्था - [क] वृत्त्या कारकार्थबोधकान्या सुविभक्तिः
( श० प्र० श्लो० ६६ पृ० ७७ ) । यथा नीलो घट इत्यादौ मतविशेषे अभेदार्थबोधिका एकत्वबोधिका वा प्रथमा विभक्तिः । [ ख ] यत्सुपो याशार्थो न प्रकारीभूय भासते । धात्वर्थे यादृगर्थे सा कारकान्यार्थ -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org