________________
न्यायकोशः।
२२१ एव च चर्मणि द्वीपिनं हन्तीत्यादौ निमित्तादेरपि न कारकत्वम् इति । एता उपपदविभक्तयः न तु कारकविभक्तयः इति ( का० व्या० पृ० १) ( श० प्र० पृ० ७७-७८)। शाब्दिकास्तु [छ] क्रियाजनकत्वयोग्यताबुद्धिविषयत्वम् कारकत्वमित्याहुः (ल० म० सुब० पृ० ७९ )। [ज ] क्रियाहेतुः (ग० प्र० पृ० ६)। यथा चैत्रो प्रामं गच्छतीत्यादौ चैत्रः कारकम् । अत्र क्रियां कुर्वद्धि कारकम् इति योगो द्रष्टव्यः ( म० प्र० पृ० ५)। [ झ ] कारकत्वं क्रियाजनकत्वम् । भाष्ये करोति क्रियां निवर्तयतीति व्युत्पत्तिप्रदर्शनात् । ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीत्यादौ ब्राह्मणस्य न कारकत्वम्। पुत्रेणान्यथासिद्ध्या तत्त्वाभावात् । अत एवैषां क्रियायामेवान्वयः । क्रियाजनकमिति ज्ञाते का सा क्रियेत्याकाङ्क्षोदयेन क्रियाया जनकाकाङ्क्षया च तत्रैवान्वयस्यौचित्यात् । सर्वेषां च कारकाणां स्वस्वावान्तरक्रियाद्वारा प्रधानक्रियानिष्पादकत्वं बोध्यम् । असंनिहितसंप्रदानस्यापि दातृबुद्धिस्थत्वावश्यकत्वेन स्वज्ञानस्य पूर्वकालत्वेनैव जनकत्वम् । एवं स्तोकं पचतीत्यादौ फलस्यापि । घटं करोति स्मरतीत्यादौ बौद्धघटादेः पूर्वकालत्वेन स्मृत्यादि निष्पादकत्वं बोध्यम् (श० शेख० का० पृ० १७४ ) । अत्र स्वज्ञानस्येत्यत्र स्वपदेनासंनिहितं संप्रदानं बोध्यम् । स्तोकं पचतीत्यत्र च फलस्य कथं कर्मत्वं तदुच्यते । पचधात्वर्थो विक्लित्त्यनुकूलो व्यापारः । तत्र विक्लित्तिरूपफलस्य व्यपदेशिवद्भावेन फलाश्रयत्वात्कर्मत्वम् । तद्वाचको च द्वौ पचधातुः स्तोकपदं चेति । तत्र धातोः प्रातिपदिकसंज्ञाया अभावात्तस्माद्वितीया न भवति । स्तोकशब्दस्य च तत्सत्त्वाद्वितीया भवति । कारकं षड्विधम् । अपादानत्वम् संप्रदानत्वम् करणत्वम् अधिकरणत्वम् कर्मत्वम् कर्तृत्वम् इति ( श० प्र० पृ० ७८ )। तदुक्तम् कर्ता कर्म च करणं संप्रदानं तथैव च । अपादानाधिकरणमित्याहुः कारकाणि षट् ॥ इति । कारकं प्रकारान्तरेणापि द्विविधम् । उक्तम् अनुक्तं चेति । तत्र धात्वर्थस्य विशेष्यतया तिङाद्यनुभाव्यत्वमेव कारकस्योक्तत्वम । तद्विशेषणतया तदनुभाव्यत्वमेव चानुक्तत्वम् । तत्र उक्त कारकं यथा पचति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org