________________
२२०
न्यायकोशः। प्रामं गच्छति घटं पश्यतीत्यादौ चैत्रेण पच्यते घटेन भूयते इत्यादौ च पतप्रभृतिधात्वर्थे पतनादौ पञ्चम्याधुपस्थापितो विभागादिः प्रकारीभूय भासत इति तत्तद्धातूपस्थापिततत्तक्रियायां विभागादिकं प्रकृते कारकम् । [ख] यादृशेन नामार्थेनावच्छिन्नस्य सुबर्थस्य यादृशधात्वर्थेन्वयः स तादृशधात्वर्थे कारकतया व्यपदिश्यते । तेन वृक्षात्पततीत्यादौ वृक्षादेरपि पतनादिक्रियायामपादानत्वादिकारकव्यवहारः । [ग] क्रियाप्रकारीभूतोर्थः कारकम् इति शाब्दिकाः स्मरन्ति ( श० प्र० श्लो० ६६ पृ० ७७ )। [घ] कारकत्वं च क्रियान्वितविभक्त्यर्थान्वितत्वम् । अस्ति च कर्मादौ क्रियान्वितसुविभक्त्यर्थान्वय इति लक्षणसमन्वयः । चैत्रस्य तण्डुलं पचतीत्यादौ तु संबन्धिनि चैत्रादौ षष्ठ्यर्थसंबन्धस्य तण्डुलादिनामार्थान्विततया क्रियानन्वितत्वान्नातिव्याप्तिः । चैत्रस्य पचतीत्यादावपि तण्डुलादिपदाध्याहारेणैव बोधः । षष्ठयर्थसंबन्धस्य नामार्थेनैव तथा क्रियायाः कर्मत्वादिनैव साकाङ्कतया परस्पराकाङ्क्षाविरहात्। ओदनस्य पक्ता मैत्रस्य पाकः इत्यादी कर्मत्वकर्तृत्वार्थिका षष्ठी कारकविभक्तिरेव । कर्तृकर्मणोः कृति (पा० सू० २।३।६५ ) इत्यनेन तद्विधानात् । अत एव संबन्धस्य न कारकत्वम् । क्रियायोगाभावात्।[] क्रियाप्रकारीभूतोर्थः कारकं तच्च षड्विधम् । कर्तृकर्मादिभेदेन शेषः संबन्धः इष्यते ॥ इति शाब्दिकाः वदन्ति । अत एव गुरुविप्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषजैः इत्यादी सा लक्ष्मीरुपकुरुते यथा परेषाम इत्यादी च रोगे विपत्तौ इत्यादिनाम्नोः यथाक्रमम् अध्याहारेणैव बोधः। अयं भावः। अत्र षष्ठयर्थसंबन्धस्याध्याहृतनामार्थेनैवान्वयः न तु क्रियया इति नात्र कारकषष्ठी इति ( का० व्या० पु. १)। अत्र गदाधरभट्टाचार्यास्तु रोगे इति पदस्य नाध्याहारः कर्तव्यः । षष्ठ्यर्थसंबन्धस्य धात्वर्थेन्वयेपि नेयं कारकविभक्तिः किंतूपपदविभक्तिरेवेत्याहुः ( ग० व्यु० का० २ ख० २ पृ० ५६ )। यदि अध्याहारमन्तरा क्रियायां षष्ठयर्थसंबन्धान्वयः प्रामाणिकः तदा [च] क्रियान्वितकर्तृत्वकर्मत्वादिषट्वान्यतमान्वयित्वम् कारकत्वं बोध्यम् । अत
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org