________________
२२
न्यायकोशः। * २ अर्थापत्तिरिति मीमांसका वेदान्तिनश्चाहुः । ३ आरोप इति माया
वादिनः । ४ रचना ५ विधानं चेति काव्यज्ञा आहुः ( वाच० )। कल्याणम्— सत्यार्जवदयादानादीनि कल्याणानि ( सर्व० सं० पृ० १२४
रामा० )। कल्याणी-चतुर्वर्षा कन्या । कुमारिका द्विवर्षा तु त्रिवर्षा च त्रिमूर्तिनी । - चतुर्वर्षा तु कल्याणी पश्चवर्षा तु रोहिणी ॥ षड्वर्षा तु भवेत्काली .. सप्तवर्षा तु चण्डिका। अष्टवर्षा शांभवी तु दुर्गा तु. नवमी स्मृता ।
दशवर्षा सुभद्रेति नामभिः परिकीर्तिताः ( पु० चि० पृ० ६८ )। कषायः–कषति हिनस्त्यात्मानं कुगतिप्रापणादिति कषायः क्रोधो मानो
माया लोभश्च ( सर्व० सं० पृ० ७४ आई० )। काणः-[क] चक्षुःशून्यगोलकवत्त्वे सति सचक्षुर्गोलकवान् । यथा
अक्ष्णा काण इत्यादौ । अत्र गोलकार्थकाक्षिपदोत्तरतृतीयाया विकृतत्वं वृत्तिमत्त्वं चार्थः । तत्राद्यं विकृतत्वं संबोध्यत्वमिव प्रकृत्यर्थे विशेषणविधयान्वेति । चरमं वृत्तिमत्त्वं तु प्रकृत्यर्थनिरूपितं सत् काणत्वैकदेशे चक्षुःशून्यत्वेन्वेति । तथा च विकृतगोलकवृत्तित्वविशिष्टं यच्चक्षुःशून्यत्वं तद्वद्गोलकवान् सचक्षुष्कः इत्याकारस्तत्र बोधः ( श० प्र० पृ० ११८)। [ख ] स्वाधिष्ठानवृत्तित्वसंबन्धेन चक्षुःशून्यो यश्चक्षुर्विनाशः तद्वान् सचक्षुष्कः । अक्ष्णा काण इत्यादौ तादृशे विनाशे अक्षिपदस्यार्थस्य गोलकस्य विकारप्रयुक्तत्वं तृतीयया बोध्यते । तथा च गोलकविकारप्रयुक्तस्य निरुक्तसंबन्धेन चक्षुःशून्यस्य चक्षुर्नाशस्याश्रयः सचक्षुष्कः इत्याकारो बोधः ( श० प्र० पृ० ११८)। [ग] शाब्दिकास्तु चक्षुर्नाशवान् सचक्षुष्कः । यथा अक्ष्णा काण इत्यादी इत्याहुः ( ल० म० सुब० पृ० १०० ) । अत्र येनाङ्गविकारः (पा० सू० २।३।२० ) इत्यनेन तृतीया । विकारस्तु कनीनिकाद्यपगमः अयथासंस्थानवत्त्वं वा । तथाच अक्षिपदार्थो गोलकम् । गोलकविकारप्रयुक्तचक्षुर्नाशवान् सचक्षुष्कः इति बोधः (ल० म० सुब० पृ० १०० )। [घ] लेशतोपि दर्शनसामर्थ्यहीनः काणः (श० शे० का० पृ० १८९)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org