________________
न्यायकोशः ।
I
द्वितीयार्थो निरूपितत्वम् । तस्य यज्ञान्वितत्वस्यानुशब्दार्थे जन्यत्वेन्वयः । जन्यतायाश्चाश्रयत्व संबन्धेन वृष्टावन्वयः ( गं० व्यु० का० २ ख ० २ पृ० ७६ ) । अन्वर्जुनं योद्धारः । अत्र अनुशब्दार्थोपकर्षः ( हीनत्वम् ) । द्वितीयार्थोवधिकत्वम् । तत्रार्जुनस्यान्वयः । द्वितीयान्तार्थस्य अर्जुनावधिकत्वस्य चापकर्षेन्वयः इति । अवधित्वस्यापादानतारूपत्वेपि क्रियान्वयाभावान्न पञ्चमीप्रसक्तिः ग० व्यु० का० २ ख ० २ पृ० ७६ ) । वृक्षं प्रति विद्योतते विद्युत् । अत्र लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः ( पाणि० १/४/९० ) इत्यनेन सूत्रेण प्रति परि अनु एषां कर्मप्रवचनीयसंज्ञा अनुशिष्यते । तत्र प्रतिशब्दस्य लक्षण इत्थंभूताख्यान भाग वीप्सा एतदात्मकानां चतुर्णामर्थानयथाक्रममुदाहरणानि कथ्यन्ते । तत्र प्रथमे लक्षणेर्थे वृक्षं प्रति विद्योतते विद्युत् इत्युदाहरणम् । अत्र परिचायकत्वरूपं लक्षणत्वं परिचेयत्वरूपं लक्ष्यत्वं वा प्रतिशब्दार्थः । वृक्षप्रकाशेन विद्युद्विद्योतनां ज्ञानाद्वृक्षस्य परिचायकता । द्वितीयार्थश्चाधेयत्वं निरूपितत्वं वा ( ग० व्यु० ख० २ कार० २ पृ० ७६ ) । मातरं प्रति साधुः । अत्र द्वितीये इत्थंभूताख्यानेर्थे संबन्धः प्रतिशब्दार्थः । साधुत्वं च प्रियकारित्वम् । द्वितीयार्थश्च प्रतियोगित्वं प्रतियोगित्वनिरूपकत्वं वा । तस्य पूर्वोक्तसंबन्धेन्वयः । तादृशसंबन्धस्य च साधुत्वघटकक्रियायामन्वयः । इत्थं च मातृसंबन्धिप्रियकारी इति बोधः । यो मां प्रति स्यात् । अत्र तृतीये भागेर्थे प्रतिशब्दस्यार्थो भागः । भागश्च स्वत्वाश्रयः । द्वितीयार्थश्च संबन्धः । तस्य पूर्वोक्तभागेन्वयः । इत्थं च मत्संबन्धी यो भागः स्यात् इति बोधः । वृक्षं प्रति सिञ्चति । अत्र चतुर्थे वीप्सार्थे वृक्षं प्रति सिति इत्यादौ द्वितीयार्थः कर्मत्वम् । अत्र चतुर्थेर्थे कर्मण्येव द्वितीया पत्वबाध एव संज्ञाफलम् प्रतिश्च गिरर्थक इति ज्ञेयम् (ग० व्यु ० का ० २ ख ० २ ० ७६ ) । एवं परि अनु एतयोरर्थ ऊः । कर्मयोगः – रसश्च पवनश्चेति कर्मयोगो द्विधा स्मृतः ( सर्व० सं०
I
I
I
पृ० २०४ रसेश्व० ) ।
२१६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org