SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। स्तोकनम्रा स्तनाभ्याम् इत्यादेः कालिदासाद्यैः प्रयुक्तत्वात् (श० प्र० श्लो० ३९ टी० पृ० ५५)। कर्मधारये समासे नीलोत्पलम् इत्यादौ न शक्तिर्न वा लक्षणा । नीलपदार्थस्योत्पलपदार्थे अभेदसंबन्धेनैवान्वयोपपत्तौ शक्तिलक्षणानङ्गीकारात् । अत एव तत्पुरुषात्कर्मधारयो लघीयान् भवति (न्या० प्र० ४ पृ० १३ ) । तथाहि निषादस्थपतिं याजयेत् इति श्रुतौ बहुव्रीहितत्पुरुषसमासावपेक्ष्य कर्मधारय एव लक्षणाद्यभावाल्लघीयान् इति (त० प्र० ख० ४ पृ० ५३-५४ )। अत्रेदं बोध्यम् । निषादस्य संकरजातिविशेषस्य शूद्रान्तर्गततया स्त्रीशूद्रौ नाधीयाताम् इत्यनेन निषिद्धत्वाद्वेदसामान्यानधिकारेपि निषादस्थपतिं याजयेत् इति विशेषश्रुतिबोधितयाजनान्यथानुपपत्त्यैव यागमात्रोपयुक्तमध्ययनं निषादस्य कल्प्यते। तथा च स्त्रीशूद्राविति सामान्यशास्त्रघटकाध्ययनपदस्य विशेषतः प्राप्ताध्ययनेतराध्ययपरत्वं वाच्यम् । तेन निषादस्य यागोपयुक्ताध्ययनेतगध्ययननिषेधः शूद्रान्तरस्य त्वध्ययनमात्रनिषेधः सिध्यति इति ( मु० ४ ) (दि. ४ पृ० १८४ )। कर्मप्रवचनीयः-(अव्ययम् ) [क] क्रियानुयोगिकसंबन्धविशेषद्योतकत्वे सत्यन्वाद्यन्यतमः । यथा अनु उप इत्यादिः । तदुक्तं हरिणा क्रियाया द्योतको नायं संबन्धस्य न वाचकः । नापि क्रियापदाक्षेपी संबन्धस्य तु भेदकः ॥ इति । कर्मप्रवचनीया एकादश सन्ति अनु उप अप परि आङ् प्रति अभि अधि सु अति अपि । [ख] क्रियाविशेषोपजनितसंबन्धावच्छेदहेतवः ( सर्व० सं० पृ० २९९ पाणि० )। एकादशानां मध्ये केषांचिदर्थः सोदाहरणं कथ्यते। तथाहि । यज्ञमनुप्रावर्षदित्यत्रायमर्थः । कारकत्वरूपहेतुत्वं अनुशब्दार्थः । अनुलक्षणे ( पाणि १।४।८४ ) इति कर्मप्रवचनीयसंज्ञाविधायकसूत्रे लक्षणपदस्य कारकहेतुपरत्वात् । तथा च यज्ञमनु प्रावर्षत् इत्यादौ आधेयत्वं द्वितीयार्थः । तत्र यज्ञस्यान्वयः । आधेयत्वस्य च अनुपदार्थे हेतुत्वेन्वयः । हेतुतायाश्च निरूपकत्वसंबन्धेन वृष्टावन्वयः । अथवा जन्यत्वम् अनुशब्दार्थः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy