________________
२१४
न्यायकोशः। , व्रीहीन् प्रोक्षतीत्यादौ ब्रीहेः कर्मत्वम् । तेन व्रीहीन प्रोक्षतीत्यादौ व्रीहे: : प्रोक्षणफलीभूतातिशयानाश्रयत्वेपि न कर्मत्वानुपपत्तिः (न्या० सि० . दी० पृ० १९) । एवमात्मनात्मानं जानातीत्यादावप्यूह्यम् । कर्मधारयः ( समासः ) [क ] तत्पुरुषः समानाधिकरणः कर्मधारयः - ( पाणि० १।२।४२)। अत्रेदं बोध्यम् । कर्मधारये विशिष्टार्थे न " शक्तिर्न वा लक्षणा । ताभ्यां विनापि विवक्षितान्वयबोधोपपत्तेः इति
(चि०४)। शाब्दिकास्तु समासमात्रे विशिष्टार्थेतिरिक्तां शक्ति कल्पयन्ति। [ख] क्रमिकम् अव्यवहितम् यन्नामद्वयम् एकस्य नानोर्थे धर्मिणि तादात्म्ये; नापरनाम्नोर्थस्यान्वयबोधं प्रति समर्थम् तादृशनामद्वयं कर्मधारयः । यथा --- नीलोत्पलमित्यादावुत्पलादिपदस्यार्थे नीलादिपदार्थस्य तादात्म्येनान्वयः ।
तथा पुरुषसिंह इत्यादावपि पुरुषादावुत्तरपदलक्ष्यस्य सिंहादिसदृशस्य · तादात्म्येनान्वयः । कुम्भस्य समीपम् इत्यर्थकस्तु उपकुम्भादिः न · तादात्म्येनान्वयबोधकः इति तत्र नातिप्रसङ्गः ( श० प्र० पृ० ४१ )।
पुरुषसिंह इत्यादौ पुरुषः सिंह इव इत्यादिविग्रहे प्रायेणोपमेयस्योपमानैः उपमानानि सामान्यवचनैः ( पा० सू० २।३।५५ ) इत्यनेन कर्मधारयोनुशिष्यते ( श० प्र० पृ० ४१)। [ग] समासप्रयुक्तलक्षणाशून्यतुल्यार्थकोभयनामकसमासः । यथा नीलोत्पलमित्यादौ कर्मधारयः । अत्र पञ्चमूलीयादावपि तुल्यार्थकोभयनामकत्वसत्त्वात्तद्वारणाय समासप्रयुक्तलक्षणाशून्येति नामविशेषणम् । धवखदिराविति द्वंद्ववारणाय तुल्यार्थकेति नामविशेषणम् । नीलोत्पलमित्यत्र यद्यपि नीलपदे नीलगुणाश्रये निरूढलक्षणा तथापि तस्याः समासप्रयुक्तत्वाभावात् नाव्याप्तिः। नामद्वयस्य तुल्यार्थत्वाच्च लक्षणसमन्वयः संभवति इति ज्ञेयम् (म०प्र० ४ पृ० ४४ )। स्तोकपक्ता इत्यादौ क्रियाविशेषणैः कर्मधारय एव । महाकविर्महाविज्ञः इत्यादौ कवित्वादाविव प्रकृतेप्यनेकनामार्थैकदेशे पचनादावपरनामार्थस्याभेदान्वयबोधकतया कर्मधारयत्वस्य संभवात् । स्तोकं पक्ता इत्यादी अमस्तादात्म्यवाचित्वे तु तत्पुरुषः संभवत्येव । क्रियाविशेषणैः समास एवाव्युत्पन्नः इति तु न देश्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org