________________
न्यायकोशः।
२१३ समवेतेति क्रियाविशेषणम् ( म० प्र० पृ० ६)। ग्रामं गच्छतीतिवत् स्खं गच्छतीति प्रयोगवारणाय परसमवेतत्वमपि द्वितीयार्थ इष्यते (ग० व्यु० का० २ पृ० ४९ )। गमिपत्योः पूर्वदेशे त्यजेरुत्तरदेशे स्पन्देश्च पूर्वोत्तरयोः कर्मत्ववारणाय धात्वर्थेति ( ल० म० सु० पृ० ९० )। [ग] शाब्दिकास्तु कर्तृगतप्रकृतधात्वर्थव्यापारप्रयोज्यतदनधिकरणवृत्तिप्रकृतधात्वर्थफलाश्रयत्वम् ( वै० सा० द० पृ० १५३ )। [घ] व्याकरणशास्त्रबोधितकर्मसंज्ञकत्वं कर्मत्वम् ( ल० म० सुब० पृ० ८५ ) । तेन अधिशय्यते प्रासादः इत्यादौ कर्मणि लकारोपपत्तिः । अधिशेतेः कर्मसंज्ञाविशिष्टान्वितस्वार्थबोधकत्वादित्याहुः ( वाच० )। [3] प्रकृतधात्वर्थप्रधानीभूतव्यापारप्रयोज्यप्रकृतधात्वर्थफलाश्रयत्वेनोद्देश्यत्वम् । इदमेव कर्तुरीप्सिततमं कर्म ( पाणि० १।४।४९ ) इत्यत्र ईप्सिततमत्वं बोध्यम् । गां पयो दोग्धीत्यादौ पयोवृत्तिर्यो विभागस्तदनुकूलो व्यापारो गोवृत्तिः । तदनुकूलश्च गोपवृत्तिः । अत्र पयसः कर्मत्वृसिद्धये प्रयोज्यत्वनिवेशः । जन्यत्वनिवेशे तु तन्न स्यात् । जन्यत्वं हि साक्षादेव । प्रयोज्यत्वं तु साक्षात्परंपरासाधारणम् । प्रयागात्काशी गच्छतीत्यत्र प्रयागस्य कर्मत्ववारणाय प्रकृतधात्वर्थफलेति । न हि विभागः प्रकृतधात्वर्थः । किंतु नान्तरीयकतया गमने सति उत्पद्यते । प्रयागस्य फलाश्रयत्वेनानुद्देश्यत्वाच्च । ननु प्रकृतधात्वर्थस्य ग्रहणेनैवात्र वारणादुद्देश्यत्वनिवेशः किमर्थ इति चेन्न । तस्यासाधारणं प्रयोजनं काशी गच्छन्पथि मृत इति । अत्र हि काश्याः फलाश्रयत्वाभावेपि फलाश्रयत्वेनोद्देश्यत्वात्कर्मत्वम् । ननु काशीं गच्छति चैत्रे चैत्रः काशीं गच्छति न प्रयागम् इति प्रयोगानुपपत्तिः । प्रयागस्य फलाश्रयत्वेनोद्देश्यत्वाभावादिति चेत् उच्यते। कर्मलक्षण ईप्सिततमपदस्य स्वार्थविशिष्टयोग्यताविशेष लक्षणा। तथा च प्रकृतधात्वर्थप्रधानीभूतव्यापारप्रयोज्यप्रकृतधात्वर्थफलाश्रयत्वेनोद्देश्यत्वयोग्यताविशेषशालित्वं कर्मत्वम् । तच्च प्रयागस्याप्यस्तीति कर्मत्वं सुलभम् । [च] न्यायसिद्धान्तदीपिकायां तु करणव्यापारविषयकारणत्वं कर्मत्वम् । यथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org