________________
न्यायकोशः ।
1
।
शास्त्रबोधितम् । यथा क्रूरंमभिक्रुध्यतीत्यत्र क्रुधद्रुद्देर्ष्यासूयार्थानां यं प्रति कोप: ( पा० सू० १|४|३७ ) इत्यनेन प्रसक्तायाः संप्रदानसंज्ञायाः क्रुधद्रुहोरुपसृष्टयोः कर्म ( पा० सू० १|४|३८ ) इत्यनेन बाधनात् कर्मसंज्ञाविधानाच्च क्रूरस्य कर्मत्वम् । एवम् वैकुण्ठमधिशेत इत्यादावपि बोध्यम् (वै० सा० द० सुब० पृ० १७० ) । अथवा कारकान्तरसंज्ञापूर्वकम् । यथा जलधिमधिशेत इत्यादौ जलधेराधारत्वेनाधिकरणसंज्ञायाः प्राप्तत्वेपि अधिशीङ्स्थासां कर्म ( पा० सू० १/४ |४६ ) इत्यादिना कर्मसंज्ञया कर्मत्वम् ( वाच० ) । अत्र निर्वर्त्यवि कार्यप्राप्याणां कर्मत्वं च कर्तृगतप्रकृतधात्वर्थ व्यापारप्रयोज्यव्यापारव्यधिकरणफलाश्रयत्वेन कर्तुरुद्देश्यत्वम् । यथा तण्डुलं पचतीत्यादौ विक्लित्त्याश्रयत्वात्तण्डुलस्य कर्मत्वम् । चैत्रं ग्रामं गमयतीत्यादौ ग्रामस्य कर्मत्वाय प्रयोज्यत्वनिवेशः । अत्र प्रयोज्यान्तेन फलविशेषणीभूतेन अग्नेर्माणवकं वारयति इत्यादावयादेः कर्मत्वं निवारितम् इति ज्ञेयम् ( ल० म०सु० पृ० ८५-८६ ) । कर्मजन्यगुणत्वम् — कर्मजन्यवृत्तिगुणत्व साक्षाद्व्याप्यजातिमत्त्वम् ( मु० गु० पृ० १९४ ) । यथा संयोगः विभागः वेगश्च एतत्रयस्य कर्मजन्यगुणत्वम् (भा० प० गु० श्लो० ८७ ) ।
1
कर्मत्वम् – १ पदार्थविभाजको जातिविशेष: (वै० वि० १ | ११७ ) | यथा उत्क्षेपणत्वादिकाः कर्मत्वसाक्षाद्वयाप्याः पच जातय: (वै० उ० १।१७ ) इत्यादौ कर्मत्वं जातिः । कर्मत्वं नाम नित्यासमवेतत्वसहितसत्तासाक्षाद्व्याप्यजातिः (सर्व० सं० पृ० २१६ औ०)। २ ( कारकम् ) [क] परसमवेतक्रियाजन्यफलशालित्वम् । यथा चैत्रस्तण्डुलं पचतीत्यादौ पाकजन्य विक्लित्तिमत्त्वात्तण्डुलस्य कर्मत्वम् । घटं जानातीत्यादौ तु घटादेर्ज्ञानविषयत्वं कर्मत्वं गौणम् (म० प्र० पृ० ६ ) । [ ख ] परसमवेतक्रियाजन्यधात्वर्थफलाश्रयत्वम् । यथा ग्रामं गच्छतीत्यादौ ग्रामस्य संयोगरूपफलाश्रयत्वं कर्मत्वम् । अत्र परसमवेतेति विशेषणाचैत्रश्चैत्रं गच्छतीति न प्रयोगः ( ल० म० सुब० पृ० ९० ) । किंच ग्रामं गच्छति चैत्र इत्यादौ चैत्रादावतिव्याप्तिवारणाय पर
२१२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org